पृष्ठम्:Mudrarakshasa.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
मुद्राराक्षसे

 पुरुषः त[१]था । ( इति निष्क्रम्य पुनः प्रविश्य । ) अंमञ्च, इदं आहर[२]णं । (क)

 राक्षसः-( ना[३]ट्येनात्मानमलंकृत्योत्थाय च । ) भद्रे, राजोप[४]गामिनं मार्गमादेशय ।

 प्रतीहारी- [५]एदु अमच्चो । (ख)

 राक्षसः-([६]आत्मगतम् ।) अधिकारपदं नाम निर्दोषस्यापि पुरुपस्य महदाशङ्कास्थानम् । कुतः ।

भयं तावत्सेव्यादभिनिविशते सेवकजनं
 ततः प्रत्यासन्नाद्भवति हृद[७]ये चैव निहितम् ।
[८]तोऽध्यारूढानां पदमसुजनद्वेषजननं
 [९]तिः सोच्छूायाणां पतनमनुकूलं कलयति ॥ १२ ॥


 (क) अमात्य, इदमाभरणम् ।

 ( ख ) एत्वमात्यः ।


 भयं तावदिति । भयं कर्तु सेव्याद्राज्ञः सकाशात्सेवकजनमभिनिविशते अभितः सर्वतः प्राप्नोति । ‘नेर्विशः’ इति तङ् । ततः राजप्रत्यासन्नोद्भयं भवति । तस्मात्कारणादध्यारूढानामधिकारिणां पदमसुजनानां दुर्जनानाम् । यद्वा असुमज्जनानां प्राणिमात्रस्येति यावत् । द्वेषजननं भव


  1. जं अमच्चो ( अज्जो E. ) आणवेदि त्ति ( om. E. ) B. E. N.; तहेति M.; निप्क्रान्त: for निष्क्रम्य G.°विशति for प्रविश्य A. P.°श्य च B. N.; °श्य पुरुषः E. omitting अमञ्च.
  2. इममलंकरणं E.इदं तं अलंक°. B. E.; एदं आ° P.
  3. B. E. N. G. have अवलोक्य; A. P. आभरणम् after नाट्येन; R. M. P. om.च; for भद्रे B. N. read भद्र.
  4. °जकुलगा B. E. N.
  5. एदु एदु B. E. N. G.; अज्जो for अमच्चो P.
  6. B. N. read स्वगतम्; P. om. it; G.E.read हि before नाम ; R.P. om. कुतः in next line.
  7. येष्वेव B. E. N. A. H.
  8. अतो° B. N.;°तोप्यारू° E.मनुजन° for °मसुजन° G.
  9. मतिः B. E. N. G.;°नुरूपं for 'नुकूलं E. H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२३५&oldid=327531" इत्यस्माद् प्रतिप्राप्तम्