पृष्ठम्:Mudrarakshasa.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४४

मुद्राराक्षसे

यत्साध्यं स्खयमेव तुल्यमुभयोः पक्षे विरुद्धं च य- तस्याङ्गीकरणेन वादिन इव स्यात्स्वामिनो निग्रहः ॥ १० ॥ अथवा। विज्ञातापरागहेतुभिः प्राक्परिगृहीतोपजापैरापूर्णमिति न विकल्पयितुमर्हमि । ( प्रकाशम् ) भद्र प्रियंवदक, उच्यन्तामस- द्वचनात्कुमारानुयायिनो राजानः। संप्रति दिने दिने प्रत्यासी दति कुसुमपुरम् । तत्परिकल्पितविभागैर्भवद्भिः प्रयाणे भैयातव्यम् । कथमिति ।

भटभागुरायणादौ स्थितिं बिभ्रद्विपक्षान्मलयकेतोर्व्यध्यवृतम् सत्सिद्धये मौर्य- लक्ष्मीस्थैर्याय समर्थं भवति इति दार्थन्तिके योजनीयम् । यत्साधनं स्वयमेव साध्यं साध्याभिनं यथा ज्ञानं प्रमाणं तद्वति तस्प्रकारकत्वात् । अत्र साधनं साध्येन प्रामाण्येनाभिन्नं समम् । यच्च साधनमुभयोः सपक्ष- विपक्षयोः व्रुतिमत्सेन व्यावृत्तत्वेन वा तुल्यम् । आद्ये उदाहरणं शब्द पक्षकनित्यत्वसाधकप्रमेयत्वं तत्र प्रमेयत्वं सपक्षे घटादौ विपक्षे आका शादौ च वृतिमत्वेन तुल्यम् । द्वितीये शब्दपक्षकनित्यत्वसाधकश- ब्दत्वं सपक्षे घटादौ विपक्षे गगनादौ च व्यावृत्तत्वेन तुल्यम् । यच्च साधनं पक्षे विरुद्धं साध्यासमानाधिकरणम् । यथा शब्दपक्षकनित्यत्व साधककृतकत्वम् । अत्र कृतकत्वं हेतुः पक्षे शब्दे विरुद्धः साध्येन नित्यत्वेनासमानाधिकरणः । नित्यत्वविरुद्धस्यानित्यत्वस्य साधक इति यावत् । एवमुक्तप्रकारं त्रिविधं यत्साधनं हेत्वाभासस्तस्याङ्गीकरणेन वादिनो निग्रहः पराभवः स्यात् । एवं प्रकृतेऽपि मलयकेतुबलं भद्रभटादि भिराक्रान्तत्वादुभयत्र तुल्यवद्भासमानं वस्तुतः पक्षे मलयकेतौ भद्र भटाद्यशेन विरुद्धमत एव स्वयमेव साध्यकोटिप्रविष्टमस्मदिष्टं साधयेद् न वेति संदिग्धमिति यावत् । एतादृशबलाभासाङ्गीकरणेन स्वामिनो राक्ष समलयकेत्वोर्निग्रहोऽवश्यं भावीति दार्थान्तिकेऽवश्यं योजनीयम् ।। १० एवं संदिह्य पुनः समाधत्ते --अथवेति। अस्माभिर्विज्ञाताश्चन्द्रगुप्ताप

१ तैस्तै: before this B. N. H. २ B. G. N. om. भद्र. ३ अतः प° B. N. यतस्तत् G. E. ( which omits the following परि); प्रवि°for वि° E; विभवैः M. R. ४ प्रस्थ° B. N.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२३३&oldid=161261" इत्यस्माद् प्रतिप्राप्तम्