पृष्ठम्:Mudrarakshasa.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
मुद्राराक्षसें


( ततः प्रविशति पुरुषेणानुगम्यमानः संय[१]तः सिद्धार्थकः।)

 सिद्धर्थकः--( स्व[२]गतम् )

[३]आणंतीए गुणेसु दोसेसु परंमुहं कुणन्तीए ।
अह्मरि[४]सजणणीए पणमामो सामिभत्तीए ॥ ९ ॥ (क)

 पुरुषः--अज्ज्, अअं सो पु[५]रिसो । (ख)

 भागुरायणः--(ना[६] ट्येनावलोक्य ।) भद्र, किमयमागन्तु आहोस्विदिहैव[७] कस्यचित्परिग्रहः।

 सिद्वार्थक:--अज, अहं रवु [८] अमच्चरक्खसस्स सेवओ। (ग)


 (क) आनयन्त्यै गुणेषु दोषेषु पराड्झुखं कुर्वत्यै ।
  अस्मादृशजनन्यै प्रणमामः स्वामिभक्त्योै ॥ ९ ॥

 (ख) आर्य,अयं स पुरुषः ।

 (ग) आर्य, अहं खलु अमात्यराक्षसस्य सेवकः ।


 अतःपरमङ्कसमाप्तिपर्यन्तं प्रथमेऽङ्के ‘किमत्र लिखामि’ इत्यादिना ‘कर्णे एवमिव’ इत्यन्तेन ग्रन्थेनोपक्षिप्तस्य बीजस्यानेकघा प्रकीर्णस्यैकार्थीकरणबी‌जोपगमनस्यैव संधेरङ्गस्य प्रपञ्चः। आणंतीए इति । दोषवति कार्थेे प्रवृ त्यापि दोषे पराङ्भुखं दोषानगणयन्तं कुर्वत्यै प्रत्युत गुणेष्वानयन्यै गुणपक्ष एव पातयन्यै सर्वतो गरीयस्योै स्वामिभक्त्यै नमः । स्वामिभत्तिवशात्स्वामिकार्यसिद्धयर्थमनुचितमपि क्रियमाणं गुणपक्ष एव भवति न पुनर्देषपक्ष इति भावः । स्वामिभत्तथै इति ‘ऋयया यमभिप्रैति स संप्रदानम्’ इति संप्रदानत्वम् ॥ ९ ॥


  1. संयमितः R; om.
  2. आत्मग° E.
  3. जाणं N.; तिप्य° B.; करतीए for कुणन्तीए B. E. N. G.
  4. अहारिसाणं E.; जणजणणीए R. E.; अह्मारिसओ M.
  5. उपसृत्य before this B. N.; अयं for अअं R. E; पुर° for पुरि॰ R.; पुरु° A. M.
  6. M. G. om. ना-भद्र; A. has विलोक्य instead; E. adds पुरुषम् after अवलोक्य; E. om।अयम्
  7. E. om. इहैवः
  8. वखु B.E.N.G. अमात्य. A.सेवको G. पासपलिवत्ति B. (सेवाओ as a variant ) सेवेगो P. केरको H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२२५&oldid=326266" इत्यस्माद् प्रतिप्राप्तम्