पृष्ठम्:Mudrarakshasa.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
मुद्राराक्षसे

तातं निपात्य सह बन्धुजनाश्रु[१]तोयै
 रन्वर्थतोपि ननु राक्षस राक्षसोऽसि ॥७॥

 भागुरायणः-( [२]स्वगतम् ।) रक्षणीया राक्षसस्य प्राणा इत्यार्यादेर्शः। भवत्वेवं तावत् । (प्रकाशम्।) कुमार,अलमावेगेन [३]आसनस्थं कुमारं किंचिद्विज्ञापयितुमिच्छामि ।

 मलयकेतुः--(उपविश्य ।) सखे, किमसि वक्तुकामः ।

 भागुरायण'- कुमार,इह खल्व[४] र्थशास्त्रव्यवहारिणामर्थवशादरिमित्रोदसीनव्यवस्था न लौ[५]किकानामिव स्वेच्छावशात् । यतस्तस्मिन्काले सर्वार्थसिद्धिं राजानमिच्छतो राक्षसस्य चन्द्रगुप्तदपि बलीयस्तया सु[६]गृहीतनामा देवः पर्वतेश्वर एवार्थपरिपन्थी महानरातिरासीत् । त[७]सिंमश्च राक्षसेनेदमनुष्ठितमिति नास्ति दोष एवात्रेति पश्यामि । पश्यतु कु[८]मारः।

मित्राणि शत्रुत्व[९]मुपानयन्ती मित्रत्वमर्थस्य वशाच शत्रुन् ।
नीतिर्नयत्यस्तपूर्ववृत्तं जन्मान्तरं जीव[१०]त एव पुंसः ॥ ८ ॥


कुपितो मलयकेतुर्भागुरायणेन समाधीयते—‘तस्मिन्काले सर्वार्थसिद्धि राजानम्’ इत्यादिना ‘महानरातिरासीत्’ इत्यन्तेन ग्रन्थेन ॥ ७ ॥

 मित्राणीति । जन्मान्तरे पूर्वजन्मवृत्तं यथा न स्मर्यते । तथा जीवत । एव पुंसः राजतन्त्रनीतिवशात्पूर्वोपकृतादि विस्मार्यत्वेन प्रसज्यत इति भावः ॥ ८ ॥


  1. °नाक्षितो° B.E.H.; अन्वर्थसंज्ञ. E.
  2. आत्म° E; M.R.G. . °स्य ३° संस्थम्
  3. संस्थम् E;G. reads कुसारं after किंचित्.
  4. R. has अस्त्रहाराणाम्
  5. लोकानां E.
  6. G. om सु.
  7. B. N. add काले after this; G. om. च’ नातिदोषमिवत्र पश्यामि B. E. N.
  8. हि before कुमारः in A. R. E.
  9. °मिवान" B.A.मप्य र्थव° for मर्थस्य च° B. N.
  10. जीवित P. R.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२२३&oldid=326059" इत्यस्माद् प्रतिप्राप्तम्