पृष्ठम्:Mudrarakshasa.pdf/२२२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


                           पञ्चमोऽङ्कः।                             २३३
     मलयकेतुः-(उपसृत्य । )
         श्रुतं सखे श्रवणविदारणं वचः
             सुहृन्मुखाद्रिपुमधिक्रुत्य भाषितम् ।
          पितुर्वधव्यसनमिदं हि येन मे
             चिरादपि द्विगुणमिवाद्य वर्द्धते ॥ ६ ॥
    क्षपणकः-( स्वगतम् ।) अये, श्रुतं मलयकेतुहतकेन । हन्त
            कृतार्थोऽस्मि।( इति निष्क्रान्तः ।)
    मलयकेतुः-( प्रत्यक्षवदाकाशे लक्ष्यं बद्धा।) राक्षस राक्षस,
             युक्तं युक्तम् ।
            मित्रं ममेदमिति निर्व्रुतचित्तव्रुत्तिं
               विश्रम्भतस्त्वयि निवेशितसर्वकार्यम् ।

         श्रुतमिति । चिरादपि चिराज्जातमपि अद्य जातमिव द्विगुणं वर्धत
      इत्यर्थः।
    कृतार्थोऽस्मीति । तेनेदानीं महत्प्रयोजनमनुष्ठेयं भविष्यतीति पूर्वोक्त
   महाप्रयोजनानुष्ठानेन कृतार्थोऽस्मीत्यर्थः । सुहृन्मुखाद्रिपुमधिकृत्येत्यनेन
   स्वस्य स्रुह्र्त्त्वेन विश्वास्यवचनत्वं राक्षसस्य रिपुस्वं च मलयकेतुन
   मनसि दृढीकृतमिति च कृतार्थता । इदं बीजानुगुणकार्यप्रख्यापन
   निर्णयः ।। ६ ॥ ।
    मित्रं ममेदमिति अनेन ज्ञायते राक्षसपर्वतकयोः पूर्व महत्सौहृदमा
    सीत् । अनन्तरं चणक्येन राज्यार्धदानपरिपणनप्रलोभनेन राक्षसाद्विभेद्य
    स्वकार्यसिद्धये पर्वतकः सहायत्वेन प्रवणीकृत इति । तथा चानुपदमेव

१ Om. B. N. G; E. has सास्त्र instead. २P. reads °दिद° fo* °द्विपु°३ G has ‘मिहाद्य वर्तते. ८ OmA.P.B.N; AN. reads before this अये सुदं सल यकेतुहदए; G.agrees and E. too reading °गेण for °gण. ५ कृतार्थश्चाणक्यः E; कृतार्थः कौटिल्यः E; A. P. Raddखभयम् before निष्क्रान्तः; G. सभायाम्; B. adds क्षपणकः after नि°. ६ B. N. R. om. one राक्षस. ७ B. N. E. read इदम् for युक्तम्; R. G. have युक्तम् once only. ८ °ममायमि° B. N. H. तिः for °तं. B. E. ९ °यैः B. D.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२२२&oldid=161762" इत्यस्माद् पुनः प्राप्तिः