पृष्ठम्:Mudrarakshasa.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
पञ्चमोऽङ्कः।


 क्षपणकः--[१]सावगा, गच्छ । होदु दे कज्जसिद्धी । अहं वि भाउराअणादो मुद्द्ं जा[२]चेमि । ( क )

( इति निष्क्रा[३]न्तौ । )

प्रवेशकः ।

( ततः प्रविशति पुरुषेणानुगम्यमानो भागुरायणः ।)

 भागुरायणः—( [४]स्वगतम् ।) अहो वैचित्र्यमार्यचाणक्यनीतेः ।

मुहुर्लक्ष्योद्भ[५]दा मुहुरधिगमाभावगहना
 मुहुः संपूर्णाङ्गी मुहुरतिकृशा कार्यवशतः ।
मुहुर्नय[६]द्वीजा मुहुरपि बहुश्रापितफले
 त्यहो चित्राकारा नियतिरिव नीतिर्नयविदः ॥ ३ ॥


 ( क ) श्रावक, गच्छ । भवतु ते कार्यसिद्धिः । अहमपि भागुरायणान्मुद्रां याचे ।


 अहं वि इति । अहमपि चिकीर्षितमहाप्रयोजनसिद्ध्यर्थं मुद्रायाचनव्याजेन भागुरायणं प्रति गमिष्यामीति गूढम् । इदं कार्यमार्गणं विरोधो नामाङ्गम् ॥

 प्रवेशक इति । तल्लक्षणमुक्तम्-‘वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । प्रवेशकस्तु नाट्येSङ्के नीचपात्रप्रयोजितः ॥' इति ।

 मुहुर्लक्ष्योद्देदा इति । मुहुर्लक्ष्योद्देदा मुखसंधौ स्तोकोद्दिष्टा सती बहुधा। विस्तारिणीत्यर्थः । प्रतिमुखे लक्ष्यालक्ष्यायाः पुनर्व्यक्ते: गहनातिकृशा च । गर्भ मुहुर्दप्टनषप्टान्वेषणान्नश्यदिव बीजमुद्योगो यस्याः सा तथोक्ता । विमर्शे बीजस्य स्पष्टमेव दर्शनात्संपूर्णाङ्गीत्युक्तम् । निर्वहणे सर्वार्थो-


  1. Om. R. M; B. E. read सावका, N. उवासआ, G. उवासक; भो° for हो° G. E. N.; उझी for द्वी: R.; कज्जंसिद्धम् . N; om. वि R. M.; यि B. E. N, ° गु for s° B. E. G. N.; °ळायणा° E; °रायणा'. R. G; ओ for दो G;B. E. N. add पाडलिउत्तं गन्तुम्.
  2. आचेमि R. M.; याचेमि E.; पडिच्छेमि B. N.
  3. G. and E. add उभौ.
  4. Om. G.आत्मग° B. E. N; विचित्रता for वैचित्र्य B.; B. E. N. G. add कुतः after नीतेः
  5. लभ्योद्दे° M.लभ्याभे°. R.
  6. श्र° B. E.; °रति for °रपि E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२१४&oldid=325573" इत्यस्माद् प्रतिप्राप्तम्