पृष्ठम्:Mudrarakshasa.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
मुद्राराक्षसे


एते तस्मिन्निवृत्तः पु[१]नरपरगिरिप्रान्तपर्यस्तबिम्बे
 प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं स्वामिनं सेवमानाः ॥ २१ ॥

( इति निष्क्रान्ताः सेवें।)

[२]तुथोऽङ्कः ।



तस्मिन्नस्तोन्मुखे सति निवृत्तास्तं परित्यज्य परावृत्ता इव दृश्यन्ते । ‘अपककुभः श्रान्तपर्यस्त बिम्बे’ इति पाठे अपककुष्पश्चिमदिगेव । प्रायो भृत्या इत्यर्थान्तरन्यासः । तेन च मलयकेतुदुरवस्था ध्वन्यते । इत्थं नियताप्तिप्रकरीरूपो विमर्शसंधिस्तस्याङ्गानि चपवादादीनि निरूपितानि ॥ २१ ॥

 इति श्रीत्र्यम्बकयज्वभ्रभुवर्याश्रितदुण्ढिराजव्यासयज्वविरचिते मुद्राराक्षसनाटकव्याख्याने चतुर्थाऽङ्कः समाप्तः ।


  1. पुनरितरककुप् B. N. पुनररयिरि E; पुनरपि ककुभः G; पुनरपरककुप्° H.: पर्यन्त for पर्यस्त A.P.
  2. मुद्राराक्षसे रक्षसयोगो नाम ; इति मुद्राराक्षसनाटके P.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२०७&oldid=325202" इत्यस्माद् प्रतिप्राप्तम्