पृष्ठम्:Mudrarakshasa.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
मुद्रारक्षसे


यन्तं कालमस्माभिरेवं संभ्रूतबलैरपि शत्रूव्यसनमुदी[१]क्षमाणैरूदासितव्यम्

 राक्षसः- कु[२]तोऽद्यापि कालहरणस्यावकाशः । प्रतिष्ठख विजयाय[३]

 मलयकेतुः--आ[४]र्य, शत्रुव्यसनमुपलब्धम् ।

 राक्षसः-उ[५]पलब्धम् ।

 मलय[६]केतुः--कीदृशं तत् ।

 राक्षसः -सचिवव्यसनं किम[७]न्यत् । अपकृष्टश्चाणक्याच्चन्द्रगुप्तः ।

 मलयकेतुः- [८]आर्य,सचिव्यसनमेव ।

 राक्षसः - अ[९]न्येषां भूपतीनां कदाचिदमात्यव्यसनमव्यसनं[१०]स्यात् । न पुनश्चन्द्रगुप्तस्य ।

 [११]लयकेतुः-आर्य, नैतदेवं चन्द्रगुप्तप्रकृतीनां चाणक्यदोषा


 न पुनश्चन्द्रगुप्तस्येति। एवं राक्षसेन समाहितोऽप्यमात्यराक्षस: चाणक्ये बद्धवैरो न चन्द्रगुप्ते’ इत्यादिपूर्वोक्तेन बहुविधेन भागुरायणोपजापेन कलुपिताशयो मलयकेतुः पुनः शङ्कते--चन्द्रगुप्तप्रकृतीनामिति । राक्षसमेव मनसि विषयीकृत्य चन्द्रगुप्तप्रकृतीनामित्यादि ताटस्थ्येन वचनम् ।


  1. °सवेक्षमा° B. H; °मवेक्षमामुद° E.
  2. कुमार before this B. E. N.P.
  3. रिपुञ्जयाय. B.
  4. असत्य B. For शत्रुभ्य° B. N. read अपि किंचिच्छत्रोपर्यं°; G, E. agree omitting किंचित्; P. H. read सचिवव्यसनमव्यखनमेवः
  5. E.has वाढ; B. N. शTढ before उप°; R. P. om. speech.
  6. रा° P.; B. E.N. G. om. तत्.
  7. व्यसनम् after this B. N; P. om. this speech.
  8. P.om. this speech; R. M. om. आर्य. B. reads अमात्य for आयें.
  9. कुमार before this B. E. N; for भूप° G. reads भूमिपतीनाम् E. भूमिपालानम्
  10. B. AN. add अपि before स्यात्, E. reads तु for पुनः
  11. Before this B. N. Have मल° । आर्य ननु विशेषतश्चन्द्रगुप्तस्येति । राक्ष° । किं कारणं यदस्या मात्यव्यसनमयलनम्; H. follows B. N., omitting यदस्या ..व्यसनम्; G. मल° । अयं नैतदेवम् । राक्ष° । किं कारणमिति; LE. मल° same as B. N. omitting इति; then राक्ष° । अथाव्यसने किं B. आ कारणमिति; N. D. om बम्; G. has इदं कारणम् instead; M. adds कुतः after' आवम्; हि before चाणक्य B. E. N.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१९५&oldid=324391" इत्यस्माद् प्रतिप्राप्तम्