पृष्ठम्:Mudrarakshasa.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८९
चतुथऽङ्कः ।


तद[१]पि नाम दुरात्मा चाणक्यबटु:-

(उपसृत्य )

 दौवारिकः–जे[२]दु (क)

 राक्षस–अति[३]संधातुं शक्यः स्यात् ।

 दौवारिकः-“उ[४]मच्चो । (ख)

 राक्षस-( [५]वामाक्षिस्पन्दनम् सूचयित्वा आत्मगतम्।) दूरात्मा चाणक्यबटुअर्जयथ्वथिसम्धातुम् शक्यः स्यादमात्य इ[६]ति वागीश्वरी वामाक्षिस्पन्दनेन ग्र[७]स्तावगता प्रतिपादयति । तथापि नोद्यमस्त्याज्यः । (प्रकाशम् ) भद्र, किमसि वक्तुकामः।


 ( क ) जयतु

 ( ख ) अमात्यः ।


मुखसंधौ रचयंस्तस्य बीजस्य विस्तारं व्यक्तिं प्रतिमुखसंधविच्छन्कुर्वन् गर्भितस्य दृष्टनष्टस्य बीजस्य गहनं फलं गूढं यथा तथा गर्भसंधावुभ्देदयन् अन्विष्यंन्विमर्शसंधौ तस्यैव बीजस्य बुद्ध्या विमर्शमनुसंधानं कुर्वन् प्रसृतमपि यथायथं विप्रकीर्णामपि कार्यजातं मुखसंध्याद्यर्थजातं निर्वहणसंधौ संहरनैकाथ्र्थमुपनयन्नाटकानां कर्ता वा तथा आदौ गूढमारब्धं राजकार्यजातं अन्तरान्तरा विस्तारयन्गर्भितानां गूढ़ानां बीजानां मन्त्राणां फलं साध्यं मुहुरुद्वेदयन् उन्नयन् बुद्ध्या विमृशंश्च आयतौ प्रसृतं शुभोदर्कम् संहरन्नुपसंहरन् अस्मद्विधो मत्री वा महान्तमायासमनु भवतीत्यर्थः ॥ ३ ॥

 वागीश्वरीति । वागीश्वरी उपश्रुतिरूपा वामाक्षिस्पन्दनेन प्रस्तावं संवादं गता प्राप्ता सती पूर्वोक्तमर्थं सूचयतीत्यर्थः । इदं कार्यसंग्रहणमादानं नाम विमर्शसंधेरन्यमङ्गम् । चाणक्यकर्तृकस्य राक्षसातिसंधान-


  1. M. R. omतद्; A. R. oम, नाम.
  2. जअदुजअइ B. N. B. G which add अतो
  3. अभि° B. JB. N. G.अनु°
  4. G , adds राक्षसः
  5. स्पन्दम् B. N. G; B. E. N. G. R. omit. दुरात्मा; B. N. read जयति अभि°;. E, जयतु अभि°
  6. E. adds राक्षस before this; B. N. (t) and H. om. वागीश्वरी and E, reads दौवारिकमवलोक्य प्रकाशम् before वागीश्वरी.
  7. गतम् B. E; P. rends पतिमापा° for प्रतिपा
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१८२&oldid=323460" इत्यस्माद् प्रतिप्राप्तम्