१८८
मुद्राराक्षसे
पुरुषः--भद्धमह्, तह करेहि । (क)
(ततः प्रविशति शयनगृहगत आसनस्धह शकटदासेन सह
सचिन्तो राक्षसः ।)
राक्षसः-(आत्मगतम् ।)
मम विमृशतः कार्यारम्भे विधेरविधेयता
मॅपि च कुटिलां कौटिल्यस्य प्रचिन्तयतो मतिम् ।
अंपि च विहिते मत्कृत्यानां निकाममुपग्रहे
कथमिदमिहेत्युन्निद्रस्य प्रयात्यनिशं निशा ॥ २ ॥
अपि च।
कार्योपक्षेपमादौ तनुमपि रचयंस्तस्य विस्तारमिच्छ
न्बीजानां गर्भितानां फलमतिगहनं गूढमुभ्देदयम्श्च।
कुर्वन्बुद्ध्या विमर्शम् प्रसृतमपि पुनः संहरन्कार्यजातं
कर्ता वा नाटकानामिममनुभवति क्लेशमस्मद्विधो वा ॥ ३ ॥
( क ) भद्रमुख, तथा कुरु ।
ममेति । मम कार्यारम्भे कार्यारम्भप्रभृति विधदैवस्याविधेयतां प्रति
कूलतां विमृशतः मकृत्यानां विषकन्यादिकपटकार्याणामुपग्रहे निरोधे
अन्यथाभावे कथमिदमिह राजकार्यं भविष्यतीत्युन्निद्रस्यानिशं निशा
प्रयातीत्यन्वयः ।। २ ।।
कविरत्राद्भुततरनीतिविषयकस्वसंविधानक्लेशं राक्षसवचनव्याजेन प्र
स्तौति-कार्योपक्षेपमिति । कार्योपक्षेपं बीजन्यासं तनुम् स्तोकोद्दिष्टमादौ
१ G. reads भद्द मुहुत्तअं तथा करेमि; N. भद्दमुह तहा करेमि; B. भद्दमुहा
करेहि; B. भद्दमुह जधा दे रोअदि; P. has करोमि for करेहि in text, २ B. E.
N. G. E. omगृह after शयन; B. E. N. H; read °गतेन for °स्थः in आसः
नस्थःB. . read अनुगम्यमानः for सह and B. has चिन्तितो for खचिन्तो
N
३ स्वगतम् G. ४ °अथच E., सहज B. N., for अपिच. ५ अपि E.H. विहते
तछ° for विहिते संस्कृ° B; तत् for मत् E. H.; इं° for ‘हि° N.६ °न्य°..शाः
B. E, N. G. H. ७ बर्षम् B. N. मशीन E; सुहुः for पुनः A.; पुरः (G.
पृष्ठम्:Mudrarakshasa.pdf/१८१
Jump to navigation
Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
