पृष्ठम्:Mudrarakshasa.pdf/१७१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


१८० मुद्राराक्षसे ०८ चाणक्यः-( विहस्य ।) ऍतत्कृतं राक्षसेन । वृषल, मया पुन- र्ज्ञातम् नन्दमिव भवन्तमुध्द्रुत्य भवानिव भूतले मलयकेतू राजाधिरा जपदे नियोजित इति । राजा–अन्येनैवेदमनुष्ठितं किमत्रार्यस्य । चाणक्य:--हे मत्सरिन्, आरुह्यारूढकोपस्फुरणविषमिताग्राङ्गुलीमुक्तचूडां लोकप्रत्यक्षमुग्रां सकलरिपुकुलोत्साददीर्घा प्रतिज्ञाम् । केनान्येनावलिप्ता नवनवतिशतद्रव्यकोटीश्वरास्ते नन्दाः पर्यायभूताः पशव इव हताः पश्यतो राक्षसस्य ॥ । २७ ॥ । यणप्रभृतिषु स्वेषु वर्गेषु न विश्वसन्ति यतो वयं तानपि पुरान्निःसारि- तवन्त इत्यहो मतिमानतिशुर: साहसी महात्मा राक्षस इति ॥ २६ ॥ विहस्येत्यादि । इदं राक्षसनीतिविभवाधिक्षेपार्थं सोत्प्रासवचनं स्व शक्तिप्रशंसनं व्यवसायः । नन्दोद्धरणमौर्याधिराज्यस्थापनहेतोः स्वशक्तेः प्रशंसनात् । अन्येनैवेदमिति । इदं नन्दोद्धरणमित्यर्थः । इयं गुरुतिरस्कृतिर्द्रवः । हे मत्सरिन्निति । मत्सरः परोत्कर्षासहनम् । आरुह्यारूढेति । प्रवृध्दकोपावेशेन विषमिताभिर्वेिसंष्ठुलम् प्रचलिता- भिरग्नाअङगुलीभिराङगुल्यगैर्मुक्तंचूडा शिखा यस्याम् । सकलानां रिपू- १ वृषल before this B. E. N. G. Before वृषल further on B. B. N. have a speech राजा । अथ किम् । एतत्कृतममात्यराक्षसेन (D. on. अथ किम् ) om. वृषल and inserts न after पुनः further on. २ °सुत्कृत्य for मुध्द्रुत्य E.; E. has पदम् and om. final इति ३ G. N. (s) nead योजितः for नियो°; A. P. D. read °तुरधिराज्यपदे; B. N. (c) yead तुरधिराज्यमारोपितः. ४ अनेनै° ANअलमुपालभ्य आर्य दैवेनेदम् &&e, M. after कि-स्य_adds इयं . B. . read गुरुरस्मृति:; R. इयं गुरुतिरस्कृतिः. ५ अहो M. R. ६ For विषमिता' M. reads मिवकरा° °च्छे° £or ‘त्सा' B. E. N.; ‘त्से’ A. ८ सूरा for भूताः G.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७१&oldid=161611" इत्यस्माद् पुनः प्राप्तिः