पृष्ठम्:Mudrarakshasa.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
तृतीयोऽङ्कः ।


इति कृतज्ञतायाः [१]स्वहस्तो दत्तः स्यात् । प्रतिश्रुतराज्यार्द्धप्रतिपादनेऽपि पर्वतकवि[२]नाशः केवलं कृतज्ञतामात्रफलः स्यादिति मलयकेतु[३]रपक्रामन्नुपेक्षितः।

 राजा–[४]अत्र तावदेवम् । राक्षसः पुनरिहैव वर्तमान आर्येणोपेक्षित इत्यत्र कि[५]मुत्तरमार्यस्य ।

 चाणक्यः —[६]राक्षसोऽपि स्वामिनि स्थिरानुरागित्वात्सुचिरमेकत्र [७]वासाकच्च शीलज्ञानां नन्दानुरक्तानां प्रकृतीनामत्यन्तविश्वस्यः प्रज्ञा[८]पुरुषकाराभ्यामुपेतः सहायसंपदाभियुक्त्तः को[९]शवानिहैवानिफ़्ऐवान्तर्नगरे


 कृतज्ञताया: स्वहस्त इति । कृतज्ञता दृष्टा स्यात् । तथा च राक्षसोपरि पातितं तदयशः परिहृतं स्यात् । तथा च राज्यार्द्धप्रदाने तव कृत्स्ननन्दराज्यलाभार्थमुपांसशुकृतोपि पर्वतकवधो व्यर्थः स्यात् । कृतज्ञतामात्रं फलं यस्य तथोक्तं केवलं स्यात् । किं तया राक्षससाचिव्यलाभविकलया कृतज्ञतया फलम् । अतो मलयकेतूपेक्षणमेव वरमनया प्रकृतया राज्यकार्यसंविधानप्रणाल्या राक्षसोपसंग्रहसाधकमित्याशयः ।

 कृतज्ञतामात्रफलः स्यादिति । तव संपूर्णनन्दराज्यफलो न स्यादिति


  1. स्वयम् for स्व B. E. N. G. has °तायाम् before this; G. has भवति for स्यात्; E. adds इतिafter स्यातू. B. N.have अर्ध before राज्य;and R.M. om प्रतिश्रुत; G. reads राज्यार्द्धप्रदाने.
  2. °नाशे for नाशः N. R. omitting केवलम्;P. adds एव after केवलम्.R, M. read परिहारः for फलः; G. फलकःE. has मात्रकम्.
  3. °रुप° for °रप° A. G.
  4. आर्य before this B. E. .N; तु before पुनः F. E; R. om. पुनः; after °हैव B. E. N. have अन्तर्नगरे, G. नगरे-
  5. G inserts कथम् after आर्येण, M. एव; अत्र after किम् M. R.; इति किमत्रमार्यस्य (sic) A.
  6. वृषल before this B. E. N. G.; खलु निज after अपि. B. E.; खलु only. G. E.;°राग° for ‘रागि°A. P. E;'मेवात्र B. N. G.
  7. G. has संवाहाच; A. संचासाच; P. संवास; B. N. सहवासाच्च; अत्यन्तम् B. E. N.
  8. प्रज्ञापुरुषकारणासुपेत्यत P.;M. R, read सह for सहाय; and अभि in अभियुक्त is om. in B. E. N. G.
  9. कोषबलवान् B. N; B. N. खलु after महा° E. has स and G.नः before खलु; A. P. read ग्र before कोप°.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७०&oldid=322098" इत्यस्माद् प्रतिप्राप्तम्