पृष्ठम्:Mudrarakshasa.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
मुद्राराक्षसे


मेव[१] तावग्दजाध्यक्षो भद्रभटः अश्वाध्यक्षः पुरुषदत्तः महाप्रतीहारस्य चन्द्रभानोर्भागिनेयो ङिङ्ग[२]रातः देवस्य स्वजनसंबन्धी महाराजो बलदेवगुप्तः देव[३]स्यैव कुमारसेवको राजसेनः सेनापतेः सिंहबलस्य क[४]नीयान्भ्राता भागुरायणो मालवराजपुत्रो लोहिताक्षः क्षत्नगण[५]मुख्यो विजयवर्मेति । एते वयं देवस्य कार्यं अवहिताः स्म इति । ( प्रकाशम् ) आर्ये, [६] एय्तावदेतत्पत्नकम् । अथैैतेषामपरागहेतून्विज्ञातुमिच्छामि ।

 चाणक्यः-वृषल, श्रूयताम्। अ[७]त्न यावेतौ गजाध्यक्षाश्वाध्यक्षौ भद्रभटपुरुषदत्तनामा[८]नौ तौ खलु स्त्रीमद्यमृगयाशीलौ हस्त्य-


 कुमारसेवक इति । देवं कौमारमारभ्यः सेवत इति कुमारसेवकः ।

 सादरमात्मागतम् वाचयित्वा बहिर्लोकान्प्रत्यवहेलयति । एतावदिति ।

इतोऽपरागाद्पक्रम्य विपक्षमाश्रितानां किमनेन पत्रदर्शनेनेति भावः ।


  1. B.N.om एव and R.adds स before गजा°;G.om.तावत्;°भट्ट:for °भटः E;°ध्यक्षो A,
  2. हिङ° B; डिज्ञि२° R.; डिण्डि° N. G.;डिगि° E; G. adds एव after देवस्य and B.G.N.H. read गन्धी for संबन्धी in next word; महाराज° for महराजो° G; °राजवल्लभो E.
  3. B. E. N. G. omदेव in next word and G, om. देवस्यैव'following that; Om. M. R.; सिंहपालस्य for सिंहबलस्य G. N.सिंहबलदत्तस्य B.
  4. G. has भ्राता before कनी°; रोहि° B.E.B.N.
  5. °गुण° for °गुण° E. A. G.; °मुख्यतमो for °मुख्यो B. N.; मुख्यभूतो E.; विनयवमेॆॅति G; आत्मगतम् before एते B. N. (r), G. om, all from एते to पत्रकम्; E. H. to प्रकाशम्. For दे-येॆ P. has कर्मसु; B. E. N. G. ०m. आर्यः
  6. E. has एव after एतावत्; R. has एव तत् for एतत् ; B. N. R. G. read पत्रम् for पत्रकम्;B. E. N. G. read before अथ राजा। आर्य एतेषाम् &c.हेतुम् for हेतून् G.E,for विज्ञातुमिच्छामि B. N. have ओतुमिच्छामि; G. has पृच्छामि;A. विज्ञापयितुमिच्छामि
  7. Om. M.; अश्वाध्यक्षराजाध्यक्षौ R.
  8. °दत्तौ E.B. N. have एतौ for following तौ ; G. om. खलु; B. N. have हि after °क्षणे; M.°पक्षेणाभियुक्त ; G. वेक्षणेषु, after which it has अधिका° omitting what goes between.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१६७&oldid=322061" इत्यस्माद् प्रतिप्राप्तम्