पृष्ठम्:Mudrarakshasa.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
मुद्राराक्षसे


द्वितीयः
सर्वोत्कर्षस्य धात्रा निधय इव कृताः केऽपि कस्यापि हेतो-
 र्जेतारः खेन धान्ना मदसलिलमुचां नागयूथेश्वराणाम् ।
दंष्ट्राभङ्गं मृगाणामधिपतय इव व्यक्तमानावलेपा
 नाज्ञाभ[१]ङ्गं सहन्ते नृवर नृपतयस्त्वादृशाः सार्वभौमाः ॥२२॥

अपि च ।
[२]भ्रूषणाद्युपभोगेन शत्रुर्भवति न प्रभुः।
परैरपारिभू[३]ताज्ञस्त्वमिव प्रभुरुच्यते ॥ २३ ॥

 चाणक्यः--( स्व[४]गतम् ।) प्रथमं तावद्विशिष्टदेवतास्तुतिरूपेण प्रवृत्तशरदुणप्रख्यापन[५]माशीर्वचनम् । इदमपरं किमिति नावधारयामि । ( विचिन्त्य ।) आः [६], ज्ञातम् । राक्षसस्यायं प्रयोगः । दुरात्मत्राक्षस, दृश्यसे ' [७]भोः जागर्ति खलु कौटिल्यः।

 राजा–आर्य वैहीनरे, [८]आभ्यां वैतालिकाभ्यां सुवर्णशतसहस्त्रं दापय ।

 कञ्चुकी- यदाज्ञापयति देवः। ( इ[९]त्युत्थाय परिक्रामति । )


 सत्त्वोत्कर्षेति । सत्त्वोत्कर्षस्य बलातिशयस्य केऽपि लोकोत्तरमहिमानः कस्यापि हेतोः विपक्षक्षपणायेत्यर्थः । व्यक्तौ प्रसिद्धौ मानावलेपौ येषां ते ॥ २३ ॥


  1. आज्ञाभङ्ग R.
  2. N. ( s ) भ्रमणाद्युपचारेण; IR. M. भूपणाद्युपयोगेन
  3. परैरनभिभू° P. R. B.
  4. आकण्यात्मगतम् B. E. N. G.; देवतारूपणेन B. N.;देवतारूपकेन D.; देवतारूपकेन G; इष्टदेवतारूपकेण H.
  5. A. P. om. आशीधै चनम्; B. N. read इदम् between प्रख्यापनम् and आशी'; E. has °ख्यापनेनाशी’; G. Reads प्रवृत्तशरद्वर्णनमशीर्वचनमिदम्.; M. has अपरमिदं कि°; G. om. न and adds इति after अवध°
  6. आः भवतु for आः ज्ञातम् G; आ भवतु E.; आ. before दुरात्म° and हतक after राक्षस N
  7. Blb. .B. . . . NG on. भोः,
  8. B. E. N. G. have दीयताम् before this omitting दापय a% the end of the speech,
  9. om. E; M. R. E. omउत्थाय; and G. has निरक्रमति for परिक्रा
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१६५&oldid=321812" इत्यस्माद् प्रतिप्राप्तम्