पृष्ठम्:Mudrarakshasa.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
तृतीयोऽङ्कः ।


आकाशं [१]काशपुष्पच्छविमभिभवता भस्मना शुक्लयन्ती
 शीतांशोरंशुजालैर्जलधरमलिनां ल्कि[२]श्रती कृतिमैभीम् ।
कापालीमुद्वहन्ती स्रजमिव धवलां कौमुदीमित्यपूर्वा
 हा[३]स्यश्रीराजहंसा हरतु तनुरिव क्लेशमैशी शरदू: ॥ २० ॥

अपि च ।

प्रत्यग्रोन्मेष[४]जिह्म क्षणमनभिमुखी रत्नदीपप्रभाणा
 [५]मात्मयापारगुवी जनितजललवा जुम्भितैः साङ्गभङ्गै।
[६]नागाङ्कं मोक्तुमिच्छोः शयनमुरु फणाचऋवालोपधानं
 निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दष्टिराकेकरा वः ॥ २१ ॥


 आकाशमिति । अपूर्वा कापि लोकोत्तरगुणाभिरामा ऐशी तनुरिव शरद्वः श्लेशं मलयकेतुराक्षसाभियोगजनितं क्लेशं हरतु । कीदृशी ईशतनुः। काशपुष्पच्छविमभिभवता तच्छविसदृशेन भस्मना आकाशं शुक्लं कुवती शीतांशोश्रचूडायां वर्तमानस्यांशुजालैर्जलधरमलिनां जलधरसदृशीं ऐभीं गजासुरसंबन्धिनीं कृतिं क्लिश्रती क्लिष्टां कुर्वती तत्रैल्यमभिभवन्सीत्यर्थः कौमुदीमिव धवलां कापालीं स्रजमुद्वहन्ती शरद्विषये भस्मधवलया काशपुष्पच्छख्याकाशं शुक्लयन्तीत्यादि योज्यम् । हस्यश्रीरिव राजहंस्यो यस्यां शरदि राजहंसीव हास्यश्रीर्यस्यां तनावित्युभयत्र विग्रहः । उपमालंकारः ॥ २० ॥

 प्रत्यग्रोन्मेष इति । शरदि क्षीरनिधौ शेषशयनादुत्थितस्य हरेराकेकरदृष्टिप्रतिपादकानि प्रत्यग्रेत्यादिविशेषणानि । प्रत्यग्रेण निद्राच्छेदनन्तरोदितेनोन्मेषणेनोन्मीलनेन जिह्मा कूणितप्रान्ता । स्पष्टमन्यत् । नागाङ्क शेषपर्यङ्करूपम् । अत्र स्वभावोक्तिरलंकारः ॥ २१ ॥

 आकाशमिति प्रत्यगोन्मेष इति चन्द्रगुप्तवैतालिकेन पठितम् । उत्तरपद्यद्वयं सत्वोत्कर्षभूषणाघुपयोगेनेति च राक्षसगूढप्रणिधिना वैतालिकवे षधारिणा स्तनकलशनाम्ना चन्द्रगुप्ततेजःसमुत्तेजनार्थं पठितमिति ज्ञेयम् ।


  1. तूल E. H.
  2. क्लिन्दतीम् B.; क्लिश्यति N. (s); क्लिष्यती G.;क्लिशती E.
  3. हासश्रीराजहंसा B. E. N. G H.
  4. प्रत्यग्रामेष° E.; भनदा for जिह्मा H.
  5. °माप्त P; रवा for लवा G; जम्भि° for जूमभि° A.; स्वाङ्ग for साङ्ग° N. ( s ),
  6. गाङ्गम् E. H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१६४&oldid=321752" इत्यस्माद् प्रतिप्राप्तम्