पृष्ठम्:Mudrarakshasa.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६५
तृतीयोऽङ्कः ।


 राजा-आर्यस्य दर्शनेनात्मानमनुग्राहयि[१]तुम् ।

 चाणक्यः--( स[२]स्मितम् ।) अलमनेन प्रश्रयेण न निष्प्रयो जनमधिकारवन्तः प्रभुमिराहू[३]यन्ते ।

 राजा-[४]आर्य, कौमुदीमहोत्सवप्रतिषेधस्य किं फलमार्यः पश्यति ।

 चाणक्यः-( स्मितं कृत्वा ।) उ[५]पालब्धुं तर्हि वयमाहूताः ।

 राजा-शान्तं पापं शान्तं पापम् । नहि नहि । विज्ञाप[६]यितुम् ।

 चाणक्यः-—[७]यद्येवं तर्हि विज्ञापनीयानामवश्यं । शिष्येण स्वैररुचयो न निरोद्धव्याः ।

 राजा–एवमे[८]तत् । कः संदेहः। किंतु न कदाचिदार्यस्य निप्रयोजना प्रवृत्तिरि[९]त्यस्ति नः प्रश्रावकाशः ।


 स्मितमिति । इत्यादिदोषप्रख्यापनमपवादः। चाणक्येन स्वोपालम्भस्य दोषस्य प्रख्यापनात् ।

 स्वैररुचय इति । स्वैररुचय: स्वतत्रा गुरवो न निर्बन्धनीया भृत्यव त्रानुयोज्या इति ।


  1. G. omआर्यस्य at the beginning of the speech; B. and N. (r) read for this अनुग्रहीतुम्; N. (s) अनुग्रहीतम्.
  2. स्मितं कृत्वा B. E. N. G; B, E. N. G. also have वृषल after this;प्रणयेन for प्रश्रयेण N. (s).
  3. B. E. N. G. add तत्प्रयोजनमभिधीयताम्
  4. om. G.
  5. वृषल before this B. E. N. G; N. (s) also adds यद्येवम् between this and वृषल; G. om. तहैिं
  6. B. N. have instead of all this आर्य नोपालब्धुम् । चाण° । किं तर्हि। राजा। विज्ञाप यितुम्; G. E, have नोपलव्धुं किं तर्हि विज्ञापयितुम् .
  7. वृषल before this B. E.N. G.; शिष्यैः for शिष्येण M. E; B. E. N. om. स्वैर; For what follows A. has °रुचयो नावरो °; M. °रुचयः स्वतन्त्रा रो° R. °रुचयः स्वतन्त्रा नावरो';N. (s). G. रुचयो नानुरो'; B. N. (r)रुचयोनुरो°
  8. For एन्त- B. E. N. G. read आर्य B. E. N. G. have अपि before आर्यस्य
  9. रुचिः प्रवर्ति (र्तयि' G.) ष्यत इत्य' B. N. G. H.; M.agrees with text omitting प्रवृ°; E. ditto, inserting भविष्यति before इति; G. reads इतोस्ति; G. E. read प्रश्नस्यावकाशः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१६२&oldid=321738" इत्यस्माद् प्रतिप्राप्तम्