पृष्ठम्:Mudrarakshasa.pdf/१६१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


१६४ मुद्राराक्षसे (उपसृत्य ) विजयतां वृषलः। राजा-–( आसनादुत्थाय ।) आर्य, चन्द्रगुप्तः प्रणमति । ( इति पाद्योः पतति ) । चाणक्यः--(पाणौ गृहीत्वा ।) उत्तिष्ठोत्तिष्ठ वत्स । आ शैलेन्द्राच्छिलान्तेस्खलितसुरनदीशीकरासारशीता त्तीरोन्तात्रैकरागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य । आगत्यागत्य भीतिश्रणतनृपशतैः शश्र्वदेव कियन्तां चूडारत्नांशुगर्भास्तव चरणयुगस्याङ्गुलीरन्ध्रभागाः ॥ १९ ॥ राजा-आर्यप्रसादादनुभूयत एव सर्वम् । तदुपविशत्वार्यः ( उभौ यथोचितमुपविष्टौ ।) १ ० चणक्यः —व्रषल, किमर्थं वेयंमाहूताः । इति स्वस्योचितकारित्वादिगुणै: स्वयमन्तस्तुष्यति । ‘प्रीतिं परां प्रगुण यन्ति गुणा ममैते’ इति । एते नन्दोद्धारणादिसाधका मम गुणा मम । प्रीतिं प्रगुणयन्ति वर्धयन्ति ॥ १८ ॥ आ शैलेन्द्रादिति । शिलान्तस्खलितेत्यादि विशेषणात् शैलेन्द्रो हिम वान्गम्यते । आ हिमाचलादासेतोश्र्च समागत्य सर्वे नृपतयः त्वां प्रणम न्त्वित्याशीः ॥ १९ ॥ १ देवः G. २ सिंहास° B. N; B. B. after " उत्थाय add चाणक्यस्य पादौ गृहीत्वा and B. E. and G. om. इति-ति at the end of speech. ३B. E. N. Om. One . उत्तिष्ट; G. has वत्स before this and पश्य after it. ४ °न्तः A. G; B. N. read धुनी for नदी further on; N. (s) सीकराचारवर्षा°E.has वर्षा ° for शीता'५for 'त्तीर' B. E. G. H. read दातीरात्रै,N. (s) दाप्रान्तात्रै °;P. also reads धामस्फुटित for रा त ६ भीत M. R; एवम् for एव. A.P; ५ रस्त्र AP.८E has . युष्मत् before प्रसा', 'G, omप्रसादात्.For संव्र तत् एतत्राशास्यते; E. एतत्रशास्यं मे; B. N. add इति after आर्यः९G. om. उभौ; B. E. N. G. read यथासनम्. १० वयम्before कि° A. P.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१६१&oldid=160260" इत्यस्माद् पुनः प्राप्तिः