पृष्ठम्:Mudrarakshasa.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
मुद्राराक्षसे

(प्र[१]विश्यावलोक्य च।) अहो राजाधिराजमत्रिणो विभूतिः । तथाहि ।

उपलशकलमेतद्भेदकं गोमयानां
 बहुभिरुपहतानां बर्हिष [२]स्तूपमेतत् ।
शरणमपि समिद्भिः शुष्यमाणाभिराभि-
 व्रिनमि[३]तपटलान्तं दृश्यते जीर्णकुड्यम् ॥ १५ ॥

 [४]तत्स्थाने खल्वस्य वृषलोद्यश्चन्द्रगुप्त इति । कुतः।

[५]स्तुवन्ति श्रान्तास्याः क्षितिपतिमभूतैरपि गुणैः
  [६]प्रवाचः कार्पण्याद्यदवितथवाचोऽपि पुरुषाः।
प्रभावस्तृष्णायाः स खलु सकलः स्यादितरथा
 निरीहाणामीशस्तृणमिव तिरस्कारविषयः ॥ १६ ॥


 उपलशकलमेतदिति । त्रेताग्निसंभरणसमिन्धनाद्यर्थे शुष्कगोमयगोलकचूर्णनार्थमुपलशकलम् । उपलोऽपि शकलो न संपूणपल इति विभूतिनैरपेक्ष्यमस्योपलशकलजीर्णकुड्यादिभिरुक्तम्। बर्हिषां दुर्भाणां स्तूपं निधननामकमुष्टिसमूहः । शरणं गृहं समिद्रेण विनमितपटलान्तमतिजीर्ण- त्वाद्विभुगतृणमयछदिप्रान्तम् । ‘वलीकनीध्रै पटलप्रान्तेऽथ पटलं छदिः’ इत्यमरः । अनेनास्यप्रतिप्रहत्वकर्मठत्वादयः श्रोत्रियगुणा उक्ताः । तथोक्तं पुरस्तात् –‘वंशे विशालवंशानामृषीणामिव भूयसाम् । अप्रतिग्राहकाणां यो बभूव भुवि विश्रुतः ॥’ इति ॥ १५ ॥

 वृषलोद्य इति । वृषलशब्देन वदितुमर्हः। ‘सुपि क्यप् च' इति क्यप्प्रत्ययः । निस्पृहत्वाद्राजानमपि तृणीकृत्य भृत्यवव्यपदिशतीत्यर्थः ।

 तदेव विवृणोति--स्तुवन्तीति। अवितथवाचः सत्यवचनशीला अपि


  1. B. E. N. G. have नाव्येन before this. महाराजा° for रजा° IE, G.adds स्य before मत्रि° ; गृहभू° for विभू° B. N; B.E. G. N. have कुतः for तथाहि
  2. स्तोम B. G.; कूट E; गुच्छ N. (r); सूप (?) N. (s)
  3. व्रिमलित A.
  4. ततः स्थ° B. N. (s); R. E. M. N. (s) om. खलु ; वृषलो देवः for वृषलोघ B, N. G. H. दैवोवृ° E; G. E. om. इति.
  5. °न्तः G. E; °न्त्य° B. N.
  6. प्रवादैः M. R; अति for यत् B; कृतिनः for पुरुषः B. H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१५७&oldid=321700" इत्यस्माद् प्रतिप्राप्तम्