पृष्ठम्:Mudrarakshasa.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मुद्राराक्षसम्।


तृतीयोऽङ्कः ।

( ततः प्रविशति कञ्चुकी ।)

कञ्चुकीः--(सनिर्वेदम्।[१] )

रूपादीन्विषयान्निरूप्य करणैर्यैरात्मलाभस्त्वया[२]
लब्धस्तेष्वपि चक्षुरादिषु ह[३]ता: स्वार्थावबोधक्रियाः ।
अङ्गानि प्रसभं त्यजन्ति पटुतामाज्ञाविधेयानि ते[४]
न्यस्तं मूर्ध्नि पदं तवैव[५] जरया तृष्णे मुधा ताम्यसि ॥ १ ॥


 अथ राक्षसाभिलष्यमाणचाणक्यचन्द्रगुप्तविरोधकथनार्थं विमर्शसंधि‌रारभ्यते । तृतीयचतुर्थावङ्कौ विमर्शसंधिः ॥ ‘गर्भसंधौ प्रसिद्धस्य बीजार्थस्यावमर्शनम् । हेतुना येन केनापि विमर्शः संधिरुच्यते ॥' इति लक्षणात् । गर्भसंधौ प्रसिद्धस्य मुहुरन्विष्टस्य चाणक्यनीतिरूपस्य बीजस्य कौमुदीमहोत्सवप्रतिषेधादिना प्रकरीनाम्न्याल्पया कथया चावमर्शनात् अनुसंधानात् नियताप्तिप्रकर्यो: संबन्धस्य चात्र सत्त्वात् । तृतीयेऽङ्के नियताप्तिः ॥ चतुर्थेऽङ्के राक्षसचारसंवादरूपा कथाप्रकरी वर्ण्यते ॥ नियताप्तिप्रकर्यानुगुण्येनास्य संधेस्त्रयोदशाङ्गानि ॥ ‘तत्रापवादसंफेटौ विद्रवद्रवशक्तयः । द्युतिः प्रसङ्गश्छलनं व्यवसायो विरोधनम् । प्ररोचना विचलनमादानं च त्रयोदश ॥'

 रूपादीति । यैश्चक्षुरादिभी रूपादिषु विषयेषु गृह्यमाणेषु तत्तद्विषये तृष्णा अभिवर्धते तानीन्द्रियाणि विकलानि सन्ति विषयान्न गृह्णन्ति ।


  1. Om.B.E.N.G.H.
  2. स्तया P.
  3. A. P. om. visarga here and after क्रियाः; M. R. read °बोधाः; N. (s) reads रोध for बोध.
  4. B.E.N.G.H. मे.
  5. तथैव N.(r); माद्यसि for ताम्यसि. B.;मोम्यसि E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१४७&oldid=321576" इत्यस्माद् प्रतिप्राप्तम्