राक्षसः-( विलो[१]क्य |) अहो महार्हाण्याभरणानि । भद्र, उच्यतामस्मद्वचनाच्छकटदासःपरितोष्य वित्र्के[२]तारं गृह्यतामिति ।
पुरुषः--तथा[३] । इति निष्कान्तः |)
राक्षसः-- [४]यावदहमपि कुसुमपुराय करभकं प्रेषयामि। (उत्था[५]य |)अपि नाम दुरात्मनश्चणक्याचन्द्रगुप्तो भिद्येत । [६]अथवा सिद्धमेव नःसमीहितं पश्यामि । कुतः ।
मौर्यस्तेजसि सर्वभूतलभुजामाज्ञापको वर्त्तते |
(इति निष्कान्ताः स[८]र्व ।)
इ[९]ति द्वितीयोऽङ्कः।
चन्द्रगुप्तो भिद्येतेति । ततःप्रभृति चन्द्रगुप्तशरीरे सहस्रगुणप्रमणत्तश्चाणक्य इति श्रुत्वा तद्वधोपाये निराशः सन्राक्षसः ‘आशा बलवती राजन् शल्यो जेष्यति पाण्डवान्’ इति न्यायेन अतःपरं स्तनकलशद्वारा मौर्यचाणक्ययोर्मिथो विरोधेन स्वेष्टसिद्धिं समाशंसते--अपि नामेति ॥
मौर्यस्तेजसीति । राजप्राप्त्या प्रतिज्ञार्णवतरणेन च लब्धान्तरा प्राप्तावसरा कृतकृत्यतैव उभौ सौहार्दाद्वेत्स्यति उभयोः सौहार्दं बिघटयिष्यतीत्यर्थः । उभौ कृतकृत्यतया परस्परं निरपेक्षौ सन्तौ केनचिन्निमित्तेन विरोधे सति पुनर्न संधास्येते इति भावः । इत्यं पताकाप्रायाशानुगुण्येन गर्भसंधेर्द्वादशाङ्गानि निरूपितानि गर्भसंधिश्च समाप्तः ॥ २२ ॥
इति त्र्यम्बकयज्वप्रभुवर्याश्रितढुण्ढिराजव्यासयज्वविरचिते मुद्राराक्षसनाटकव्याख्याने द्वितीयोङ्कः समाप्तः ॥
- ↑ B. E. N. G. add आत्मगतम् here; महाधनान्या° for महार्हाण्या°R. A. P.;M. inserts हैं between हा and ध; B.E.N.G. read प्रकाशम् beforeभद्र;G.om. भ-ताम्B.E. N.G. om. अस्मद्वचनात् ;G. om. visarga after°दास.
- ↑ E.reads परि° after विक्रे° and P. om. final इति
- ↑ जं अमच्चो आणवेदित्ति B. N. E. G has देवो for अमच्चो and om. त्ति
- ↑ B. N. have स्वगतम् before this.
- ↑ G.E. have इति before this; G. Om. नाम; B. E, N. Read क्यहतकात् for °क्यात्।
- ↑ अथ P;अथवा A.;G. om. सि–तः; B. E. N. om. नः
- ↑ °न्तरम् P.
- ↑ A.P.om. इ-र्वे.
- ↑ A.adds राक्षसविचारो नाम;P.मुद्राराक्षसनान्नि नाटके;M.R.G.E.om. इति.