पृष्ठम्:Mudrarakshasa.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्क। विराधगुप्त:-अमात्य, तथापि खलु प्रारब्धमपरित्याज्यमेव । पश्य । प्रारभ्येते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः। विघ्नै: पुनः पुनरैपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ १७ ॥ अपि चै। किं शेषस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत् किं वा नास्ति परिश्रमो दिनपतेरास्ते न यान्निश्चलः। किं त्वङ्गीकृतमुत्सृजन्कृपणवच्छ्लाघ्यो जनो लज्जते र्निर्व्यूढं प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् ॥ १८ ॥ राक्षसः--सखे, प्रारब्धमपरित्याज्यमिति प्रत्यक्षमेवैतद्भवताम् । ततस्तत:। विराधगुप्तः--ततः प्रभृति चन्द्रगुप्तशरीरे सहस्रगुणमप्रमत्तश्चा- इत्यमरः । मौर्यस्य नाशार्थं प्रणीता मन्नीतयः प्रत्युत तस्यैव श्रेयांसि फलन्तीति पश्य दैवसंपदं चन्द्रगुप्तस्येति पूर्वेणान्वयः ॥ १६ ॥

किं शेषस्येति । कृपणवदुत्सृजन्निति पूर्वेणान्वयः। प्रतिपन्नवस्तुषु अङ्गीकृतव्स्तुषु । निर्व्यूढं निर्वाहः भावे क्तः । निर्व्यूढमिति यदेतत्सतां कुलव्रतमित्यर्थः ॥ १७ ॥ 'निर्व्यूढिः प्रतिपन्नवस्तुषु सतामेकं हि गोत्रव्रतम्’ इति कचित्पाठः। निर्व्यूढिरूपमेकं मुख्यं गोत्रव्रतमित्यर्थः ।। १८ ॥ । १ Om. in R. G. N. B; इति for एव E; for पश्य after this N. G. B. have पश्यत्वमात्यः२ आर° G. ३ निहिता B. ४ सहस्रगुणितैः E. ५ °णास्त्वमिवोद्वहन्ति-

G.B.E.N.H. ६ om. E. ७°च्चार्यो N. ८ निर्व्यूढिः G. E. H.; निर्वाहः B. N.

°मेकंहि, for °मेतद्धि G. E. ९ Om. G; B. om. एव; G. omएतत् ; B. E. G. read भवतः १० A. R. om. one ततः ११ B. has चाणक्यहतकः here and B. and N. have °गुप्तस्य शरी०.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१३६&oldid=159639" इत्यस्माद् प्रतिप्राप्तम्