पृष्ठम्:Mudrarakshasa.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
मुद्राराक्षसे


गृहं प्रविष्टमात्रेणैव[१] निपुणमवलोकयता दुरात्मना चाणक्यहतकेन कस्माच्चिद्भित्तिच्छिद्रान्दृहीतभक्तावयवां नि[२]ष्क्रमन्तीं पिपीलिकापंक्तिमवलोक्य पुरुषगर्भमेतग्दृहमिति गृहीतार्थेन दाहितं त[३]च्छयनगृहम् । तसिंश्च दह्यमाने धूमावरुद्धदृष्टयः प्रथम[४]पिहितनिर्गमनमार्गमनधिगम्य द्वारं सर्व एव बीभत्सादयो ज्वलनमुपगम्य तत्रैव नष्टाः ।

 राक्षसः-(सास्त्रम् ।) कष्टं भोः, क[५]ष्टम् । सखे, पश्य दैवसं पदं दुरात्मनश्चन्द्रगुप्तहतकस्य । कुतः।

कन्या तस्य वधाय या विषमयी गू[६]ढं प्रयुक्ता मया
 दैवात्पर्वतकस्तया स[७] निहतो यस्तस्य राज्यार्द्व्रहृत् ।
ये शस्त्रेषु[८] रसेषु च प्रणिहितास्तैरेव ते घातिता
 मौर्यस्यैव फलन्ति प[९]श्य विविधश्रेयांसि मन्नीतयः ॥ १६ ॥


कन्या तस्येति । रसेषु विपेषु । 'शृङारादौ विषे वीर्ये गुणे रागे जले रसः'


  1. After प्रा-शात् B. reads प्रविष्टमात्रेणैव शयनगृहे चाणक्येन दुरात्मना समन्तादवलोकिते ततस्त्वेकस्माद्भित्ति &c.; N. प्रविष्टमात्रेणैव चाणक्येन शयनगृहं समन्तादवलोकितम्। ततोन्यस्माद्भित्ति & ; G. प्रविष्टमात्रेणैव शयनगृहे दुरात्मनावलोकिते चाणक्यहतकेन ततस्तस्माद्भिक्ति &c.E. प्रविष्टमात्रेणैव शयनगृहं दुरात्मना चाणक्यहतकेनावलोकितम् the rest as in N.
  2. E. has गृहीतेनन्नावयवानां पिपीलिकानां निःक्रामन्तीं प° &c; G. N. om. पङ्क्ति in text,
  3. E. has एव; B. N. have अन्तः after तत्; G. om. त-हम् ; B. दृष्टिविषयाः; G. धूमाभिरुद्धदृष्टिविषयाः; N. धूमाभिरुद्धविषयाः; E. धूमनिवहनिरुद्धदृष्टिचि° &c.
  4. विहित. M. R; मपिहित. B.पिहित. G. E. N; all other Mss. प्रथममभिहित' R, M. om. निर्ग-मार्ग and सर्व-गम्य; N. G. E. omनि- र्ग..; N. G. read अनुपगम्य and after द्वारम् have तदैव संतापादुरात्मानः सर्व एवोपरतः; E. has निगमनपथम् for द्वारम् and after that सर्वेपि बीभत्सकादयस्तत्रैव ज्वलिताः B. om, द्वारम्; adds तत्रैव before ज्वलन and for °गम्य &c. reads ° गता उपरताश्र्च. All mss. except B. E. read द्वारं after अनधिगम्य
  5. om क...म् R, E. B. M. G. has सचिन्तः कष्टम्; N. कष्टमः omitting all up to कन्या; Fo: दु-स्य R. M. have चन्द्रगुप्तस्य; G has विचिन्त्य पश्य सखे चन्द्रगुप्तस्य दुरात्मनो दैवसंपदः; E. om. दैव and हतक in text, B. has सखे पश्य चन्द्रगुप्तस्य दैवसंपदा सर्व एवोपरताः। सचिन्तम् । सखे दैवसंपदं पश्य &c. as in text.
  6. पूर्व. E.
  7. G. E.N.B भाक् for हृत् B. and in
    margin of G.
  8. यत्रेषु. B.
  9. तस्य R, M; मे नीतयः for मन्नीतयः B. E. N.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१३५&oldid=321435" इत्यस्माद् प्रतिप्राप्तम्