पृष्ठम्:Mudrarakshasa.pdf/१३४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


१३३ द्वितीयोऽङ्कः।

विराधगुप्तः—यदितरेषाम् । राक्षसः-( सोद्वेगम्।) कथमिव । विराधगुप्तः—स खलु मूर्खस्तं युष्माभिरतिसृष्टं महान्तमर्थराशिमवाप्य महता व्ययेनोपभोक्तुमारब्धवान् । ततः कुतोऽयं भूयान्धनागम इति पृच्छ्यमानो यदा वाक्यभेदान्बहूनगमत्तदा चाणक्यहतकेन विचित्रवधेन व्यापादितः। राक्षसः-( सोद्वेगम्।) कथमत्रापि दैवेनोपहता वयम् । अथ शयितस्य चन्द्रगुप्तस्य शरीरे प्रहर्त्तुमस्मत्प्रयुक्तानां राजगृहस्यान्तर्भित्तिसुरङ्गामेत्य प्रथममेव निवसतां बीभत्सकादीनां को वृत्तान्तः । विराधगुप्तः—अमात्य, दारुणो वृत्तान्तः। रक्षसः-(सावेगम्।) कथं दारुणो वृत्तान्तः। न खलु विदितास्ते तत्र निवसन्तश्चाणक्यहतकेन । विराधगुप्तः—अमात्य, अथ किम् । प्राक् चन्द्रगुप्तप्रवेशाच्छ्यन । १ आत्मविनाशः B. N. G. २ E. om. इव ३ सखे for स E.; °रनुसृ° for रतिसृ° A. P; E. for next word reads प्रभूतमर्थं; G. महानर्थं; R. has जाल for राशि. ४ °रव्धः G. E; G. om. following ततः; P. G. om. अयम्; E. has एवम्. ५ B. N. G. E. add तव before इति; B. N. add अयम् after पृच्छय°; नवदत् R. M.; °न कथयत् B. N; E. reads वहून् before वाक्य; बहुवाक्यभे- दमाकुलमकथयत् H.;चणक्यहतकादेशाद्विचित्रेण व°B.E. N. G. H.; चाणक्येन for चा...हतकेन. P. ६ Om. A. P. R.; सविपादस् M;वयमेवोपहता दैवेन B. N. E. ७ नरपतिशयनगृहस्यान्तः सुरङ्गयां निवख.° B. N.; नरपतिगृहस्यान्तःसु° &c. as in text G.; नरपतिशयनगृहस्यान्तःसु° &c. as in text E; P. has सताम् for निवसताम्. ८ A. P. को वा वृ°. ९ R. M. om. all from अमात्य here to अथ किम् in next speech but one. १० Om. P; सोद्दे'. G. omitting कथं-न्तः which follows. ११ P. has तु after this; G. has वसन्तः for तत्र-केन; N. om. ते-केन except निवसन्तः; E. has हतकस्य for हतकेन . १२ Om. in B. G. N; B. has after this a speech रा°-कथमिव. ॥ विरा° । प्राकू &c.: 12

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१३४&oldid=162146" इत्यस्माद् पुनः प्राप्तिः