पृष्ठम्:Mudrarakshasa.pdf/१२९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


१२८ मुद्राराक्षसे

ष्टेनेव सुचिरं दारुवर्मणो दाक्ष्यं प्रशस्याभिहितम्-‘अचिरादस्यदा- क्ष्यस्यानुरूपं फलमधिगमिष्यसि दारुवर्मन् ।

रक्षसः-( सोद्वेगम् ।) सखे, ‘कुतश्चाणक्यबटोः परितोषः। अफलमनिष्टफलं वा दारुवर्मणः प्रयत्नमवगच्छामि । यदनेन बुद्धि- मोहादथवा राजभक्तिंप्रकर्षान्नियोगकालमप्रतीक्षमाणेन जनितश्चाण- क्यबटोश्र्चेतसि बलवान्विकल्पः । ततस्ततः ।

विराधगुसः -ततश्चाणक्यहतकेनानुकूललग्नवशादर्द्वरात्रसमये चन्द्रगुप्तस्य नन्दभवनप्रवेशो भविष्यतीति शिल्पिनः पौरांश्र्च गृही- तार्थान् कृत्वा तस्मिन्नेव क्षणे पर्वतेश्वरभ्रातरं वैरोचकमेकासने चन्द्र- गुप्तेन सहोपवेश्य कृतः पृथ्वीराज्यविभागः ।

न्तरे संस्कार इति । तीक्ष्णरसदानशयनगृहशयितहननादिरूप इति गू- ढोऽभिसंधिः ।

अनुरूपं फलं वधरूपं फलमिति गूढम् ।

राजभत्त्कीति । राज्ञि सर्वार्थसिद्धौ भक्तिप्रकर्षः वैरिनिधनेन भक्त्य- तिशयप्रदर्शनम् । अयमपकारिजनाद्भयमुद्वेगः ।

तंतश्चाणक्यगहतकेनेत्यादि । इदं चाणक्यस्येष्टार्थोपायनुसरणमाक्षेपों नामान्त्यमङ्गम् ।

B. G. E. H. om. इव; B. E. N. G. read सुचिरम् after दारुवर्मणः (P.

reading रुचि° £or दुचि°); E. om. दोरु°; G. has दारुवर्माणम्.; अभिनन्द्य. B. N.;अभिप्रशस्य G; E. adds इति after दाक्ष्यम्. २ फलं before अनुरूपम् P; G and E have दारुवर्मन् before फल; N. before आधिगं; M. R. E. add इति at the end of the sentence. दारुवर्माधिगमिष्यतीति H. ३ °मधिग°. A. P. ४ राजप्रकर्ष नयता कालमप्रतीक्ष्यमाणे &c.. G; प्रकर्पे नियता अभियोगकालम- प्रतीच्छमानेन ज° &c. E; प्रकर्षत्या वा कालमप्रतीक्ष्यमाणेन ज° N; B. agrees with text heading संजनितः for जनितः. ५महान् A.P;R. om. one ततः ६

B. adds अद्य before अर्द्ध. ७ R. has पृथक् for पृथ्वी; G. has राज्यप्रविभागः;

E. राज्यार्द्धप्रविभागः; N. पृथिवीराज्यार्द्धभागः; B. पृथ्वीराज्यार्धभागः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१२९&oldid=161612" इत्यस्माद् पुनः प्राप्तिः