पृष्ठम्:Mudrarakshasa.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
द्वितीयोऽङ्कः ।


 विराधगुप्तः-अमात्य[१], दैवस्यात्र कामचारः किं ।त्र्कियताम् ।

 राक्षसः--ततस्ततः[२]

 विराधगुप्तः-[३]ततः पितृवधत्रासादपक्रान्ते कुमारे मलयकेतौ विश्वा[४]सिते पर्वतकभ्रातरि वैरोचके प्रकाशिते च चन्द्रगुप्तस्य नन्दभवन[५]प्रवेशे चाणक्यहतकेन आहूयाभिहिताः सर्व एव कुसुमपुरनि[६]वासिनः सूत्रधाराः यथ सांवत्सरिकादेशादर्द्धरात्रसमये चन्द्रगुप्तस्य नन्दभवनप्रवेशो भविष्यति । ततः पूर्वद्वारात्प्रभृति संस्क्रियतां राजभवनमितिततः सूत्रधा[७]रैरभिहितम्--'आर्य्, प्रथममेव देवस्य चन्द्रगुप्तस्य नन्दभ[८]वनप्रवेशमुपलभ्य सूत्रधारेण दारुवर्मणा कनकतोरणन्यासादिभिः संस्कारविशेषैः संस्कृतं प्रथमराजभवनद्वा[९]रम् । अस्याभिरिदानीमभ्यन्तरे संस्कार आधेयः' इति । ततश्चाणक्यबदुना अनादिष्टेनैव सूत्रधारेण दारुवर्मणा संस्कृतं राजभवनद्वारमिति परितु-


 सूत्रधाराः शिल्पिनः ।

 संस्कारविशेषैरिति । चन्द्रगुप्तोपरि तोरणपातनोद्यमादिरूपैः । अभ्य-


  1. सखे G; G and A. read next word as देवस्य; G. om. अन्न;G. चाराभ्दत्त्कि त्र्कियताम् B. N. कामचारः किमत्र त्र्कियते
  2. R, A. om. one ततः
  3. ततः ---केतौ om in G; M. om. ततः; B. वधपरित्रा';A. P. वधादप'; B. N. add कुसुमपुर after 'क्रान्ते; M. and R. om. कुसरे which follows
  4. B. N. add च here; वैरोचने for वैरोचके M. N.; वैरोधके E; च om. in R. G. E.P.
  5. E. has वंश for भवन; क्येन for स्थ..केन G; M. P. G. om आहूय
  6. M. R, om. नि and B. E. N. G. have सर्व एव after this; सूत्रकारा: for सूत्रधाराः M; G. om यथा which follow; E. H. have सांवत्सरिकदत्तलग्नवशात्; B. N. have सांवत्सरिकवचनाद्धैवर्द्धरात्र° &c.; G. and E. add अद्य before अर्द्ध and read रात्रि for रात्र ;B. N. add एवाभिमतः before चन्द्रः; वंश for भवन E.; B. E. N. add इति after भविष्यति for न..रात् G. E, read अन्तःपुरद्वारप्रवेशात् M.P. have ततः पूर्वेद्वारप्रवेशात्;B N. have ततः प्रथमद्वारात्.
  7. सूत्रकारै° M.here as elsewhere.
  8. वंश for भवन E.
  9. G . has सस्कृते राजद्वारे ; B. संस्कृतं प्रथमराजद्वारम् ; N. agrees but reads प्रथमम्; B. E. N. G. read अस्माभिः after इदानीम् which follows, and G.adds अपि before अभ्यन्तरे ‘स्कारोविधेय. B. E. N.;°स्कार आभिधेयः G.; A. adds च before चाणक्य; B. G. E. R. om. सूत्रधारेण .
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१२८&oldid=321311" इत्यस्माद् प्रतिप्राप्तम्