सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
मत्तविलासप्रहसनम् ।

 उन्मत्तकः-(कपालिनमुपगम्य कपालं भूमौ निक्षिप्य प्रदक्षिणीकृत्य पादयोः पतित्वा) [] महादेव! कळीअदु पशादो । एशोदे अञ्जली ।
 कपाली-अस्मदीयं कपालम् |
 देवसोमा-[] एवं एदं ।
 कपाली- भगवत्प्रसादात् पुनरपि कपाली संवृत्तः ।

( ग्रहीतुमिच्छति ।)

 उन्मत्तकः-[] दाशीएपुत्त ! विशं खादेहि । (कपालमाच्छिद्य गच्छति ।)
 कपाली-( अनुसृत्य ) एष यमपुरुषो मे जीवितं हरति । अभ्यवपद्येतां भवन्तौ ।
 उभौ-[] होदु । अम्हे दे सहाआ होम |

( सर्वे रुन्धन्ति

 कपाली-भोः ! तिष्ठ तिष्ठ ।
 उन्मत्तकः-[]किश्श मं ऴुन्धन्ति ।
 कपाली-अस्मदीयं कपालं दत्त्वा गम्यताम् ।
 उन्मत्तकः-[]मूढ ! किं ण पेक्खशि, शुवण्णभाअणं खु एदं ।


  1. महादेव ! क्रियतां प्रसादः । एष तेsञ्जलिः ।
  2. एवमेतत् ।
  3. दास्याः पुत्र ! विषं खाद ।
  4. भवतु | आवां ते सहायौ भवावः ।
  5. कस्मान्मां रुन्धन्ति ।
  6. मूढ ! किं न पश्यसि, सुवर्णभाजनं खल्वेतत् ।