एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
मत्तविलासप्रहसनम् ।
उन्मत्तकः-(कपालिनमुपगम्य कपालं भूमौ निक्षिप्य प्रदक्षिणीकृत्य पादयोः पतित्वा) [१] महादेव! कळीअदु पशादो । एशोदे अञ्जली ।
कपाली-अस्मदीयं कपालम् |
देवसोमा-[२] एवं एदं ।
कपाली- भगवत्प्रसादात् पुनरपि कपाली संवृत्तः ।
( ग्रहीतुमिच्छति ।)
उन्मत्तकः-[३] दाशीएपुत्त ! विशं खादेहि । (कपालमाच्छिद्य गच्छति ।)
कपाली-( अनुसृत्य ) एष यमपुरुषो मे जीवितं हरति । अभ्यवपद्येतां भवन्तौ ।
उभौ-[४] होदु । अम्हे दे सहाआ होम |
( सर्वे रुन्धन्ति
कपाली-भोः ! तिष्ठ तिष्ठ ।
उन्मत्तकः-[५]किश्श मं ऴुन्धन्ति ।
कपाली-अस्मदीयं कपालं दत्त्वा गम्यताम् ।
उन्मत्तकः-[६]मूढ ! किं ण पेक्खशि, शुवण्णभाअणं खु एदं ।