| २६ | मत्तविलास प्रहसनम् |
कहं मं बाहन्ति । पशीदन्तु पशीदन्तु दाळअभट्टा । इमश्श मंशखण्डश्श काळणादो मा मं बाहेह । (अग्रतो विलोक्य) एशे खु अम्हाणं आआळिए शूळनन्दी | जाव णं उवशप्पामि । (इति धावति|)
पाशुपतः-अये ! अयमुन्मत्तकः इत एवाभिवर्तते|य एषः,
निर्विष्टोज्झितचित्रचीवरधरो रूक्षैर्नितान्ताकुलैः
केशैरुद्धतभस्मपांसुनिचयैर्निर्माल्यमालाकुलैः ।
उच्छिष्टाशनलोलुपैर्बलिभुजामन्वास्यमानो गणै-
र्भू्यान् ग्रामकसारसञ्चय इव भ्राम्यन् मनुष्याकृतिः ॥
उन्मत्तकः-[१]जाव णं उवसप्पामि । ( उपसृत्य )
महाशाहुणो चण्डाळकुक्कुळश्श शआशादो अहिअदं एदं
कवाळं पडिगण्हदु भअवं ।
पाशुपतः-( सदृष्टिक्षेपम् ) पात्रे प्रतिपाद्यताम् ।
उन्मत्तकः- [२]महाबम्हण ! कळिअदु पशादो ।
शाक्यभिक्षुः - [३]एसो महापासुवदो एदस्स जोग्गो ।
कथं मां बाधन्ते । प्रसीदन्तु प्रसीदन्तु दारकभर्तारः । अस्य मांसखण्डस्य कारणाद् मा मां बाधध्वम् । एष खल्वस्माकमाचार्यः शूरनन्दी । यावदेनमुपसर्पामि ।
(क)
(ख)(ग)