सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६ मत्तविलास प्रहसनम्


कहं मं बाहन्ति । पशीदन्तु पशीदन्तु दाळअभट्टा । इमश्श मंशखण्डश्श काळणादो मा मं बाहेह । (अग्रतो विलोक्य) एशे खु अम्हाणं आआळिए शूळनन्दी | जाव णं उवशप्पामि । (इति धावति|)
 पाशुपतः-अये ! अयमुन्मत्तकः इत एवाभिवर्तते|य एषः,
निर्विष्टोज्झितचित्रचीवरधरो रूक्षैर्नितान्ताकुलैः
 केशैरुद्धतभस्मपांसुनिचयैर्निर्माल्यमालाकुलैः ।
उच्छिष्टाशनलोलुपैर्बलिभुजामन्वास्यमानो गणै-
 र्भू्यान् ग्रामकसारसञ्चय इव भ्राम्यन् मनुष्याकृतिः ॥
 उन्मत्तकः-[]जाव णं उवसप्पामि । ( उपसृत्य ) महाशाहुणो चण्डाळकुक्कुळश्श शआशादो अहिअदं एदं कवाळं पडिगण्हदु भअवं ।
 पाशुपतः-( सदृष्टिक्षेपम् ) पात्रे प्रतिपाद्यताम् ।
 उन्मत्तकः- []महाबम्हण ! कळिअदु पशादो ।
 शाक्यभिक्षुः - []एसो महापासुवदो एदस्स जोग्गो ।


कथं मां बाधन्ते । प्रसीदन्तु प्रसीदन्तु दारकभर्तारः । अस्य मांसखण्डस्य कारणाद् मा मां बाधध्वम् । एष खल्वस्माकमाचार्यः शूरनन्दी । यावदेनमुपसर्पामि ।
(क) (ख)(ग)

  1. यावदेनमुपसर्पामि । महासाधोश्वण्डालकुक्कुरस्य सकाशादधिगतमेतत् कपालं प्रतिगृह्णातु भगवान् ।
  2. महाब्राह्मण| क्रियतां प्रसादः ।
  3. एष महापाशुपत एतस्य योग्य: ।