सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
मत्तविलासप्रहसनम

यदेतदासीत् प्रथमं स्वभावतो
 मृणालभङ्गच्छविचोरमम्बरम्

अपिच,
 आवृतं बहिरन्तश्च कषायेणानपायिना ।
 त्वां प्राप्तं स्यात् कथं नाम कपालमकुषायितम् ॥ १६ ॥
 देवसोमा-[] हा हदह्नि मन्दभाआ । सव्वळक्खणसम्पण्णदाए कमळासणसीसकवाळाणुभावस्स पुण्णमासिसोमदंसणस्स णिच्चसुरागन्धिणो एदस्स मळिणपडसंसग्गेण इअ ईदिसी अवस्था संवृत्ता । (इति रोदिति ।)
 कपाली- प्रिये ! अलमलं सन्तापेन । पुनः शुचिर्भविष्यति । श्रूयन्ते हि महान्ति भूतानि प्रायश्चित्तैरपनीतकल्मषाणि भवन्ति । तथाहि-
आस्थाय प्रयतो महाव्रतमिदं बालेन्दुचूडामणिः
 स्वामी नो मुमुचे पितामहशिरश्छेदोद्भवादेनसः ।
नाथोऽपि त्रिदिवौकसां त्रिशिरसं त्वष्टुस्तनूजं पुरा
 हत्वा यज्ञशतेन शान्तदुरितो भेजे पुनः पुण्यताम् ॥ १७ ॥
भो बभ्रुकल्प! नन्वेवमेतत् ।

  1. हा हतास्मि मन्दभागा। सर्वलक्षणसम्पन्नतया कमलासनशीर्षकपालानुभावस्य पौर्णमासीसोमदर्शनस्य नित्यसुरागधिन एतस्य मलिनपटसंसर्गेणेयमीदृश्यवस्था संवृत्ता ।