सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
मत्तविलासप्रहसनम्।

 शाक्यभिक्षुः-[१] कवाळिआउस! मा मा एवं । किं एवं | (अत्मगतम्) अहो लळिअरूवा उवासिआ ।
 कापाली- भो भिक्षो! दर्शय तावत् । यावदेतत् ते पाणौ चीवरान्तःप्रच्छादितं द्रष्टुमिच्छामि ।
 शाक्यभिक्षुः- [२] किं एत्थ पेक्खिदव्वं । भिक्खाभाअणं खु एदं ।
 कपाली-अत एव द्रष्टुमिच्छामि ।
 शाक्यभिक्षुः-[३] आ, उस! मा मा एवं । पच्छण्णं खु एदं णेदव्वं ।
 कपाली- नूनमेवमादिप्रच्छादननिमित्तं बहुचीवरधारणं बुद्धेनोपदिष्टम् ।
 शाक्यभिक्षुः- [४] सचं एवं |
 कापाली - इदं तत् संवृतसत्यम् । परमार्थसत्यं श्रोतु- निच्छामि ।
 शाक्यभिक्षुः- [५] भोदु एतभो परिहासो । अदिक- मादकवेळा | साहेनि अहं । (प्रतिष्ठते ।)

  1. ↑ काकलिकोपासक ।मा भवन्। किमेतत् । अहो लालतरूपा उपासिका ।
  2. ↑ किमत्र द्रष्टव्यन् । भिक्षाभाजनं खल्वेतत् ।
  3. ↑ आ, उपासक! मा माम् । प्रच्छन्नं खल्वेतन्नेतव्यम।
  4. ↑ सत्यमेतत्।
  5. ↑ भवत्येतावान् परिहासः । अतिकामति भिक्षावेला | साधयाम्यहम् ।