पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । देवसोमा - (क) भअवं ! पेक्ख पेक्ख । एसो रत्त- पडो इमरिंस विरसत्थपुरिससम्पादे रामनग्गे सह इस वङ्गो उभयपक्खसञ्चारिदविट्ठी सङ्किवादविखेको तुरिअ. तुरिअं गच्छइ । कपाली-प्रिये! एवमेतत् । अपिचास्य हस्ते चीव- रान्तःप्रच्छादितं किमप्यस्तीव । देवसोमा- (ख) भअवं! तेण हि ओळम्बिअ आसा- दिअ जाणीमो। कपाली - भवति! तथा । (उपगम्य) भो भिक्षो ! तिष्ठ । शाक्यभिक्षुः-(ग)कोणुखुमं एवं भगादि। (निवृत्यावलोक्य ) अइ अयं एअंववासी दुट्ठकवाळिओ। भोदु, इमस्स सुरावि- ब्भमस्स ळक्वं ण होमि । (सत्वरं गच्छति :) कपाली-प्रिये! हन्त लब्धं कपालम् । अस्य हि मदर्शनजनितभयात् त्वरैव चौर्यसाक्षित्वं प्रतिपन्ना । (द्रुतमु. पगम्याग्रतो रुणद्धि ।) आः धूर्त ! वेदानी गमिष्यसि । (क) भगवन् ! पश्य पश्य । एष रक्तपटोऽन्मिन् विश्वानपुरुषसम्पाते राज- मार्गे सङ्कुचितसर्वाङ्ग उभयपक्षसञ्चारितदृष्टिः शङ्कितपदविक्षेपस्त्वरितत्वरितं गच्छति । (ख) भगवन् ! तेन हि अवलम्ब्यासाद्य जानीवः । (ग) कोनुखलु मामेवं भणति । अयि अयमेकाम्रवामी दुष्टकापालिकः । भवतु , अस्य सुराविभ्रमस्य लक्ष्यं न भवाामे । १. 'ओ', २, 'अविळ', ३. 'स्वरिता ग' ख. पायः.