सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
मतविलासप्रहसनम्।

 देवसोमा-[] भअवं ! पेक्ख पेक्ख । एसो रत्तपडो इमस्सिं विस्सत्थपुरिससम्पादे राअनग्गे सङ्कुलव्वङ्गो उभयपक्खसञ्चारिददिट्ठी सङ्किदादविक्खेवो तुरिअतुरिअं[] गच्छइ ।
 कपाली- प्रिये । एवमेतत् । अपिचास्य हस्ते चीवरान्तःप्रच्छादितं किमप्यस्तीव ।
 देवसोमा-[]भअवं! तेण हि []ओळम्बिअ आसादिअ जाणीमो ।
 कपाली-भवति ! तथा । (उपगम्य) भो भिक्षो ! तिष्ठ ।
 शाक्यभिक्षुः-[] कोणुख मं एवं भगादि। (नित्यावलोक्य) अइ अयं एअंव्ववासी दुट्ठकवाळिओ । भोदु, इमस्त सुराविब्भमरस लक्खं ण होमि । ( []सत्वरं गच्छति :)
 कपाली- प्रिये ! हन्त ळब्धं कपालम् । अस्य हि मद्दर्शनजनितभयात् त्वरैव चौर्यसाक्षित्वं प्रतिपन्ना । (दुतमुपगम्याग्रतो रुणद्धि । ) आः धूर्त्त ! केदानीं गमिष्यसि ।


  1. भगवन् ! पश्य पश्य । एष रक्तपटोऽस्मिन् विश्वस्तपुरुषसम्पाते राजमार्गे सङ्कुचितसर्वाङ्ग उभयपक्षसञ्चारितदृष्टिः शङ्कितपदविक्षेपस्त्वरितत्वरितं गच्छति ।
  2. 'आं'
  3. भगवन् ! तेन हि अवलम्ब्यासाद्य जानीवः ।
  4. 'अविळ'
  5. कोनुखलु मामेवं भणति । अयि अयमेकाम्रवामी दुष्टकापालिकः । भवतु, अस्य सुराविभ्रमस्य लक्ष्यं न भवामि ।
  6. 'स्वरिता ग' ख. पाठः,