सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
मत्तविलासप्रहसनम्।

ण्णगन्धरसो मच्छमंसप्पआरबहुळो अअं पिण्डवादो समासादिदो । जाव दाणि राअविहारं एव्व गच्छामि (परिक्रम्य आत्मगतम्) भोः! परमकारुणिएण भअवदा तहागएण पासादेसु वासो, सुविहि(अ) सय्येसु पज्जड़्केसु सअणं, पुव्वण्हे भोअणं, अवरण्हे सुरसाणि पाणआणि, पञ्चसुग(न्धव्वो[] ? न्धोव)हिअं तम्बोळ्ळं, सण्हवसणपरिधाणं ति एदेहि उवदेसेहि भिक्खुसङ्घस्स अणुग्गहं करन्तेण किष्णुहु इत्थिआपरिग्गहो सुरावागविहाणं च ण दिट्ठं । अहव कहं सव्वञ्ञो एदं ण पेक्खदि । अवस्सं एदेहि दुट्ठबुद्धत्थविरेहि णिरुच्छाएहि अह्माणं तरुणजगाणं मच्छरेण पिडअपुत्थएसु इत्थिआसुरावाणविहागाणि [] पळामिट्ठाणि ति तक्केमि । कहिंणुहु अविणट्ठमूळपाठं समासादएअं । तदो सम्पुण्णं बुद्धवअणं ळोए पआसअन्तो सङ्घोवआरं करिस्सं । (परिक्रामति । )


    मासादितः । यावदिदानीं राजविहारमेव गच्छामि । भोः! परमकारुणिकेन भगवता तथागतेन प्रामादेषु वासः, सुविहितशय्येषु पर्यङ्केषु शयनं, पूर्वाह्णे भोजनम्, अपराह्ने सुरसानि पानकानि पञ्चमुगन्धोपहितं ताम्बूलं, लक्ष्ण वसनपरिधानमित्येतैरुपदेशैर्भिक्षु सङ्घस्यानुग्रहं कुर्वता किन्नुखलु स्त्रीपरिग्रहः सुरापानविधानं च न दृष्टम् । अथवा कथं सर्वज्ञ एतन्न पश्यति । अवश्यमेतैर्दुष्टचुद्धस्थविरैर्निरुत्साहरैम्माकं तरुणजनानां मत्सरेण पिंटकपुस्तकेषु स्त्रीसुरापानविधानानि परामृष्टानीति तर्कयामि । कुत्रनुखल्वविनष्टमूलपाठं समासादयेयम् । ततः सम्पूर्ण बुद्धवचनं लोके प्रकाशयन् सङ्घोपकारं करिष्यामि ।

  1. 'वोधिअं' क. पाठः ।
  2. 'वअणा ख. पाठः ।