एतत् पृष्ठम् परिष्कृतम् अस्ति
११
विलासप्रहसनम्।
पश्याम इति । हा हतोऽस्मि । भ्रष्टं मे तपः । केनाहमिदानीं कपाली भविष्यामि | भोः ! कष्टम् ।
येन मम पानभोजन-
शयनेषु नितान्तमुपकृतं शुचिना ।
तस्याद्य मां वियोग:
सन्मित्रस्येव पीडयति ॥ ११ ॥
(पतितः शिरस्ताडनं रूपयित्वा ) भवतु । अस्ति लक्षणमात्रम् । न मुक्तोऽस्मि कपालिसंज्ञायाः[१] । (उत्तिष्ठति । )
देवसोमा–[२]भअवं ! केण खु गहीदं कवाळं ।
कपाली- प्रिये ! तर्कयामि शूल्यमांसगर्भत्वाना वा शाक्यभिक्षुणा वेति ।
देवसोमा-[३]तेण हि अग्गेस गणिमित्तं सव्वं कञ्चीउरं परिब्भमामो |
कपाली-प्रिये ! तथा ।
(उभौ परिक्रामतः ।)
(ततः प्रविशति शाक्यभिक्षुः पात्रहस्तः ।)
शाक्यभिक्षुः-[४]अहो उवास[५]अस्स धणदाससेट्ठिणो सव्वावासमहादाणमहिमाणो, जहिं मए अभिमदव-