सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
मतविलास प्रहसनम्

 कपाली-भवति ! भिक्षां देहि |

(नेपथ्ये)

[]भअवं! एसा भिक्खा । पडिगण्हदुं भअवं।

 कपाली-एष प्रतिगृह्णाति । प्रिये ! क मे कपालम् ।
 देवसोमा-[] अहं वि ण पेक्खामि ।
 कपाली- ( ध्यात्वा) आ, तस्मिन्नेव सुरापणे विस्मृतमिति तर्कयामि । भवतु, प्रतिनिवृत्य द्रक्ष्यावः ।
 देवसोमा- []भअवं ! अधन्मो खु एसो आदरो वणीदाए भिक्खाए अप्पडिग्गहो । किं दाणि करम्ह ।
 कपाली - आपद्धर्मे प्रमाणीकृत्य गोशृङ्गेण प्रतिगृह्यताम् ।
 देवसोमा- []भअवं ! तह । (प्रतिगृह्णाति।)

(उभौ परिक्रम्यावलोकयतः।)

 कपाली- कथमिहापि न दृश्यते । (विषादं रूपयित्वा)भो भो माहेश्वराः । माहेश्वराः ! अस्मदीयं भिक्षाभाज- नमिह भवद्भिः किं दृष्टम् । किमाहुर्भवन्तः -- नखलु वयं



  1. भगवन् ! एषा भिक्षा । प्रतिगृह्णातु भगवान् ।
  2. अहमपि न पश्यामि ।
  3. भगवन् ! अधर्मः खल्वेष आदरोपनीताया भिक्षाया अप्रतिग्रहः किमिदानीं कुर्वः ।
  4. भगवन् ! तथा ।