सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मत्तविलास प्रहसनम् ।

(ततः प्रविशति सपरिग्रहः कपाली ।)

 कपाली- (क्षीबतां रूपयित्वा) प्रिये ! देवसोमे ! सत्यमेवैतत् - तपसा कामरूपता प्राप्यत इति । यत् त्वया परमव्रतस्य विधिवदनुष्ठानेनान्य एव रूपातिशयः क्षणात् प्रतिपन्नः।तव हि,
उन्निश्रमवारिविन्दु वदनं संभ्रूलताविभ्रमं
  खेलं यातमकारणानि हसितान्यव्यक्तवर्ण गिरः ।
रागाक्रान्तमधीरतारमलसापाङ्गं युगं नेत्रयो-
  रंसोपान्तविलम्बिनश्च विगलन्मालागुणा मूर्धजाः ॥ ६ ॥
 देवसोमा-भअवं[]! मत्तं विअ मत्तं विअ म भणासि ।
 कपाली - किमाह भवती ।
 देवसोमा-[] ण ह किञ्चि भणामि ।
 कपाली - किन्नुखलु मत्तोऽस्मि ।
 देवसोमा - [] भअवं ! परिक्रममइ परिब्भमइ पुहुवी । पुरो वदामि विअ | अवलम्ब दाणि मं ।
 कपाली-प्रिये ! तथास्तु । ( अवलम्बमानः पतनं रूपयित्वा )

  1. भगवन् ! मत्तामिव मत्तामिव मां भणसि ।
  2. न खलु किञ्चिद् भणामि ।
  3. भगवन् ! परिभ्रमति परिभ्रमति पृथिवी । पुरः पतामिव । अवलम्बस्वेदानीं मं ।