पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासग्रहसनम् । (ततः प्रविशति सपरिग्रहः कपाली ।) कपाली- (क्षीबतां रूपयित्वा) प्रिये ! देवसोमे! सत्यमे- वैतत् - तपसा कामरूपता प्राप्यत इति । यत् त्वया परमव्रतस्य विधिवदनुष्ठानेनान्य एव रूपातिशयः क्षणात् प्रतिपन्नः । तव हि, उहिन्नश्रमवारिबिन्दु वदनं सभ्रूलताविभ्रम खेलं यातमकारणानि हसितान्यव्यक्तवर्ण गिरः । रागाक्रान्तमधीरतारमलसापाङ्गं युगं नेत्रयो- रंसोपान्तविलम्बिनश्च विगलन्मालागुणा मूर्धजाः ॥६॥ देवसोमा- (क) भअव! मत्तं विक्ष मत्तं विअ म भणासि । कपाली --किमाह भवती । देवसोमा - (ख) ण हु किश्चि भणामि । कपाली- किन्नुखलु मत्तोऽस्मि । देवसोमा--(भअवं! परिब्भमइ परिन्भमइ पुहुवी। पुरो वदामि विअ । अबळम्ब दाणि मं । कपाली- प्रिये! तथास्तु । (अवलम्बमानः पतनं रूपयित्वा) (क) भगवन् ! मत्तामिव मत्तामिव मां भणसि । (ख) न खलु किञ्चिद् भणामि । (ग) भगवन् ! परिभ्रमति परिभ्रमति पृथिवी । पुरः पतामीव । अवलम्ब. स्वेदानी माम् ।