पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासग्रहसनम् । किञ्च, आकरे सूक्तिरत्नानां यस्मिन् गुणगरीयसाम् ।

  • अर्धन्ति बहु सूक्तानि सतां सारलघून्यपि ॥ ४ ॥

नटी--(क) किं दाणि अय्येण विळम्बीअदि । णं अ. पुरुवदाए तुरिअं अणुट्ठिदव्वो अअं पओओ । सूत्रधारः-- अहं तु, सम्प्रति सङ्गीतधनः कविगुणकथयास्मि निम्नतां नीतः। (नेपथ्ये) प्रिये ! देवसोमे! सूत्रधारः- युवतिसख एष सुरया कपालविभवः कपालीव ॥ ५ ॥ (निष्क्रान्तौ ।) स्थापना। (क) किमिदानीमार्येण विलम्ब्यते । नन्वपूर्वतया त्वरितमनुष्ठातव्योऽयं प्रयोगः ।

  • अर्घति मूल्यप्राप्त्यर्थको धातुः । बहु. इति क्रियाविशेषणम् । बहु अर्धन्ति

बहु मूल्यं प्राप्नुवन्ति श्लाघामनल्पां लभन्त इति यावत् । यः स्वयं गुणोत्तरसूक्ति- रत्नानेधिः सन् परकीयसूक्तान्यल्पगुणान्यपि नावमन्यते , प्रत्युत लापत एवं केवल- मिति तात्पर्यम् । यस्मिन्निति वैषयिके सामीपिके बाधिकरगे सप्तमी ।