सामग्री पर जाएँ

पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मत्तविलास प्रहसनम् ।

किञ्च,

आकरे सूक्तिरत्नानां यस्मिन् गुणगरीयसाम् ।
[]अर्घन्ति बहु सूक्तानि सतां सारलघून्यपि ॥ ४ ॥

 नटी- []किं दाणि अय्येण विळम्बीअदि । णं अपुरुवदाए तुरिअं अणुट्ठिदव्वो अअं पओओ ।
 सूत्रधारः - अहं तु,

सम्प्रति सङ्गीतधनः
 कविगुणकथयास्मि निम्नतां नीतः ।

(नेपथ्ये)

प्रिये ! देवसोमे !
 सूत्रधारः:-

युवतिसख एष सुरया
 कपालविभवः कपालीव ॥ ५ ॥

(निष्क्रान्तौ ।)
स्थापना ।



  1. अर्धति मूल्यप्राप्त्यर्थको धातुः । बहु इति क्रियाविशेषणम् । बहु अन्ति बहुमूल्यं प्राप्नुवन्ति श्राघामनल्पां लभन्त इति यावत् । यः स्वयं गुणोत्तरसूक्ति- रत्नानेधिः सन् परकीयसूक्तान्यल्पगुणान्यपि नावमन्यते प्रत्युत श्लाघत एव केवल- मति तात्पर्यम् । यस्मिन्निति वैषयिके सामीपिके वाधिकरगे सप्तमी ।
  2. किमिदानीमार्येण विलम्ब्यते । नन्वपूर्वतया त्वरितमनुष्ठातव्योऽयं प्रयोगः ।