लब्ध्वा प्रिये ! दुर्लभमाननं ते
भूयोऽपि किं प्रार्थयितव्यमस्ति ॥ २ ॥
नटी -(क) किं दाणि अय्येण पउज्जिदव्यं ।
सूत्रधारः- ननु त्वयैवाभिहितं मत्तविलासप्रहसन- मिति ।
नटी -(ख) णूणं इमस्सिं पक्खवादी मे कोवो, जेणअभिप्पाआणुरुवं[१] भणाविद ह्नि । अय्य! कदमो उण सो कवी, जो इमाए किदीए पआसीअदि ।
सूत्रधारः-भवति!श्रूयताम्।पल्लवकुलधरणिमण्डलकुलपर्वतस्य सर्वनयविजितसमस्तसामन्तमण्डलस्य आखण्डलसमपराक्रमश्रियः श्रीमहिमानुरूपदानविभूतिपरिभूतरा. जराजस्य श्री सिंहविष्णुवर्मणः पुत्रः शत्रुषड्वर्गनिग्रहपर : परहितपरतन्त्रता महाभूतसधर्मा महाराजः श्रीमहेन्द्रविक्रमवर्मा नाम । अपिच,
प्रज्ञादानयानुभावधृतयः कान्तिः कलाकौशल
सत्यं शौर्यममायता विनय इत्येवम्प्रकारा गुणाः ।
अप्राप्तस्थितयः समेत्य शरणं याता यमेकं कलौ
कल्पान्ते जगदादिमादिपुरुषं सर्गप्रभेदा इव ॥ ३ ॥
(क) किमिदानीमार्येण प्रयोक्तव्यम् ।
(ख) नूनमस्मिन् पक्षपाती मे कोप:, येनाभिप्रायानुरूपं भाणितास्मि ! आर्य ! कतमः पुनः स कविः, योऽनया कृत्या प्रकाश्यते ।
1. 'गर्न भ' स. पाठ::
- ↑ 'गर्न भ' स. पाठ: