२ काव्यमाला ।
इत्युद्भ्रान्त इवोल्लपन्नवतु वो मन्दं निकुञ्जोदरे
रुद्राणीसुरतप्रबन्धविकलः खण्डेन्दुचूडामणिः ॥ २ ॥
अपि च |
प्रातः स१हस्रकिरणप्रणिपातभीरुः
क२क्षातटप्रणयिनीं मदनप्रशस्तिम् l
आस्तां जगत्रयमुदे तिरयन्भुजाभ्यां
गेॉरीनखक्षतिपदावलिमिन्दुमौलिः ॥ ३ ॥
(नान्द्यन्ते)
सूत्रधारः-अलमतिविस्तरेण । य३तः ।
गोविन्ददेवः प्रथितः पृथिव्यां श्रीमान्महामाण्डलिकाधिराजः |
कविप्रियो ना४टकदर्शनार्थमादेशयन्मां र५णरङ्गमल्लः ॥ ४ ॥
यदद्य वसन्तसमयसमुचितेन कविराजश्रीशङ्खधरविरचितेन लटकमे-
लकनामा प्रहसनेनास्मान्विनोदयेति | अस्य च सकलरा६जचक्रवालकुल-
क७मलवनविकासभास्करस्य प्रत्यर्थिपार्थिवम८हार्णवमथनाकुलितदिकुञ्जरक-
दम्बस्यार्थिजनतापतस्करस्याज्ञा कस्य न करणीया | तथा हि |
निस्त्रिंशक्षतकुम्भिकुम्भविगलन्मुक्ताकलापाङ्कुराः
कङ्कालामलकर्पराः पतदसृक्पङ्कप्रलिप्तोदराः ।
मज्जद्भूधरकोटिमन्थनकलादत्तारिवीरश्रियो
येनैता विहिताः पयोधिविषमा भीमा रणक्षोणयः ॥ ५ ॥
अपि च |
येन गभीरे समरे रिपुगणमुन्मथ्य मार्गणैरगणैः ।
मार्गणनिवहविलब्धाश्चित्तचमत्कारकारिणः करिणः ॥ ६ ॥
(नेपथ्ये )
अये, कोऽयमनेकपण्डितमण्डितायां सभायां कविराजतां नाटयितुमुद्यतः॥
१. 'सहृस्रनयन' ग. २. 'कक्षान्तर' ग. ३. 'यतः' ग-पुस्तके नास्ति. ४.'ना-
टकनर्तनाथै' क-ग. ५. 'रतिरङ्गमल्लः' ख. ६. 'राजकुल' ग. ७. 'कमलकलिका'
क. ८. 'मद्दार्णवमन्दरस्यार्थेि-' क.
पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/७
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
