पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कव्यमाला मैहाकविश्रीशङ्खधरविरचितं लैटकमेलकम् प्रथमोऽङ्कः ।

गैौरीचुम्बनचञ्चलाञ्चलवलच्चन्द्रप्रभामण्डलं व्यावल्गत्फणिकुण्डलं रतिरसप्रस्विन्नगण्डस्थलम् । प्रैौढप्रेमपरम्परापरिचयप्रोत्फुल्लनेत्राञ्चलं शभोरस्तु विभूतये त्रिजगतामुन्मत्तगङ्गं शिरः ॥ १ ॥

अपि च ।

रक्षाक्षावलिमाः परित्यज जटाः कोऽयं मदप्रक्रमः कौपीनं त्यज मुञ्च मुञ्च नखरव्यापारमास्थानिकम् ।

१. अयं लटकमेलकप्रणेता शङ्खधरकविः कान्यकुब्जदेशे ख्रिस्ताब्दद्वादशशतके स- मुत्पन्न इति प्रतीयते, यतोऽनेन प्रस्तावनायां महामाण्डलिकाधिराजो गोविन्दचन्द्रमही- पतिर्वण्यते स्म. स च द्वादशशतके कन्नौजनगरे राज्यं कुर्वन्नासीदिति इण्डियन् आण्टि- केर्यादिमुद्रिततत्तदानपत्रेभ्योऽवसीयते. अथ चात्र ग्रन्थे गृहीतानि कतिपयग्रामनामानेि कान्यकुब्जदेशीयग्रामनामसरणिमनुसरन्ति. 'कतिपयनिमेष-', 'एष स्वर्गतरङ्गिणी-', इति पद्यद्वयं शार्ङ्गधरपद्धतौ, 'गुरोर्गिरः पञ्च -' इति पद्यं साहिल्यदर्पणे च लटकमेलका- दुद्धृतमस्ति. अथ च साहिल्यदर्पण-षष्ठपरिच्छेदे संकीणैप्रहसननिरूपणप्रकरणे 'यथा ल- टकमेलकादि' इत्युक्तमस्ति, अतोऽपि चतुर्दशशतकात्प्राचीनोऽयं कविरिति ज्ञायत एव. एतन्मुद॒णुवुसरे चास्माभिः पुस्तकत्रयमासादितम्. तत्र -केवलदासात्मजेन भगावा- नदासश्रेष्ठिना सूरतनगरात्प्रहितं प्रथमपत्ररहितं प्रायः शुद्धं प्राकृतच्छायासमेतं १६०८ मिते विक्रमाब्दे लिख्रितम्स्ति, तत्प॒त्राणि २१. -जयपुरीयराजगुरुपर्वणीकरनारा- यणभट्टसंग्रहादुपलब्धं नातिशुद्धं नवीनतरं च. तत्पत्राणि २१. -अस्मदीयमेव. तदपि नवीनम्, किं तु १६५३ मेिते विक्रमाब्दे लिखितस्य प्रायःशुद्धस्य कस्यचित्पुस्तकस्य प्र- तिस्पक्म्, तत्पत्राणि ८. २. 'लटको दुर्जनः' इत्युणूदिसूत्रवृत्ताड्वुज्ज्वलदत्तः. लट- कानां मेलकः संघटनं यत्र तल्लटकमेलकम्,