पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१ अङ्कः] लटकमेलकम्,| १३
अज्ञानराशिः-(सरभसम् ') मया छागीति न नैिहता, किं नु वतिस-
कति ज्ञातम् |
सभासलिः-तर्हि जितमज्ञानराशिना । तद्रुहाण जैयपत्रम् ।
तपस्विनामुना सत्यं जितमज्ञानराशिना |
जटानां कुलटानां च यत्रैकत्र समागमः ॥ ३;* ॥•
अज्ञानराशिः-(सकैोधम् ) औये, मामुपहसत्युपाध्छ्य॒ायः l अहह,
ब्राह्मण्यं विनापि परमप्रतिष्ठाप्रकर्षस्ते | रे* रे,
विशालतिलकारम्भ दम्भक्षोभकलानिधे |
राजवेश्मसरःकङ्क रङ्क केनोपमीयसे ॥ ३१ ॥
सभासलिः-(सकोपम् ')
कैौपीनवानपि जटापटलाकुलोऽपि
भालस्थलस्खलितभस्मकणारुणाक्षः |
उन्मादबन्धुरुपनीय गलेऽक्षमाला-
मुन्मार्ष्टि वारवनिता जघनं जघन्यः |॥ ३२ ॥
र्देन्तुरा-तुम्हेर्हि लज्जा कत्थ विकिणिदा । (क)
सभासलिः-अद्यैव हट्टे महाजनपुरतः सुशीलादेव्या सुवर्णदाम्ना
क्रीता |
अज्ञानराशिः-(मदनमञ्जरीमवलोक्य |)
नेत्रानन्दभुवः प्रमोदवसतेरस्याः कुरङ्गीदृश-
स्तन्वङ्गच्याः स्तनशैलमूलविलसन्मुक्तालतापाशितः ।
विस्तीर्णे जघनस्थलीपरिसरे व्यामोहलीलाभर-
भ्रान्त स्वान्तकुरङ्ग यास्यसि कुतः पंञ्चेषुबाणार्दितः ॥ ६३ ॥
(क) युष्माभिर्लज्जा कुत्र विक्रीता |

  • १. *जयपञ्ञ्त्रमेिति पत्रमपैयति* ख. २. *अये* इल्यारभथ *प्रकर्षस्ते? इल्यन्तं स्ख-ग-

पुस्तकयोर्नास्ति. ३. ‘अरे रे' ख. ४. *दन्तुरा? इल्यम्रभ्य ‘क्रीता' इल्यन्तं क*पुस्तके
नास्ति. ५. *पञ्चेषुणाभ्यर्दितः? ख.