x १५७ । स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् । (४-१-५४) उपसर्जनभूतादसंयोगोपधाददन्तात् स्वाङ्गवाचिनः प्रातिपदिकात् स्त्रियां ङीष् स्याद्वा । यथा- चन्द्रमुख – चन्द्रमुखी, चन्द्रमुखा ।सुकेश – सुकेशी, सुकेशा । प्रत्युं-(’असंयोगोपधात्’किम्?)गूढगुल्फा, सुपार्श्वा । ('स्वाङ्गात् ' किम् ? ) |बहुस्वेदा । ('अदन्तात्' किम् ? )सुदृक्, रम्भोरूः । स्वाङ्गं प्राण्यवयवः । तच्चैवं निरुक्तम्- ‘अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च, तेन चेत्तत्तथायुतम् ॥ ' द्रवत्वात् स्वेदो न स्वाङ्गम् ; अमूर्तत्वात् ज्ञानं न स्वाङ्गम् ; 'सुमुखा, शाला' इत्यादौ अप्राणिस्थत्वात् मुखं न स्वाङ्गम् ; शोफो विकारज- त्वात् न स्वाङ्गम् । 'कीर्णकेशि रथ्या' इत्यादिसिद्ध्यर्थम् 'अतत्स्थं तत्र दृष्टं च' इति । ‘तेन चेत्तथा युतम्न् सुस्तनी प्रतिमा' इत्यादि सिध्यति ॥ (H) ऊङुतः । (४-१-६६) उकारान्तान्मनुष्यजातिवाचिन ऊङ् प्रत्ययः । यथा - कुरु-कुरूः । ब्रह्मबन्धु — ब्रह्मबन्धूः । (1) ऊरूत्तरपदादौपम्ये । (४१-६९) यथा - रम्भेव ऊरू यस्याः सा रम्भोरूः । (J) संहितशफलक्षणवामादेश्च । (४-१-७०) एतत्पूर्वपदादूरूत्तरपदादनौपम्येऽपि ऊङ् । यथा— वामे (=सुन्दरे) ऊरू यस्याः सा वामोरूः । (K) यूनस्तिः । (४-१-७७) युवन्शब्दात् स्त्रियां तिप्रत्ययः स च तद्धितेष्वन्तर्भूतः 'नलोपः प्रातिपदिकान्त- स्य' (२५२) इति नलोपः । युवन् + ति = युवति—युवतिः ।
पृष्ठम्:Laghu paniniyam vol1.djvu/९०
दिखावट