११७ । तोर्लिं । (८-४-६०)
तवर्गस्य लकारे परे परसवर्ण: स्यात् । आन्तरतम्याल्लकार एव परसवर्णः । यथा- तद् + लक्ष्यं = तल्लक्ष्यम् । चित् + लयः = चिल्लयः |
तस्मिन् + लयः = तस्मिँल्लयः ।
११८
उद् इत्युपसर्गात् परयोः स्थास्तम्भधात्वोः पूर्वसवर्ण आदेशः स्यात् । 'आदेः परस्य' (३३) इति परिभाषया 'स्था' स्तम्भू ' इत्यनयोरादिवर्णस्य सकारस्या- देशः । आन्तरतम्यपरीक्षायां सकारस्य थकार आदेशो युज्यते । यथा - उद् + स्थानं = उत् + स्थानं = उत् + थ्थानं = उत्त्थानम् |
उद् + स्तम्भनं =उत् + स्तम्भनं = उत् + त्तम्भनं = उत्तम्भनम् ।
११९ । झयो होऽन्यतरस्याम् । (८-४-६२)
झय: परस्य हस्य पूर्वसवर्णो वा स्यात् । हकारस्यान्तरतमो घोषः यथा- सम्यग + हितं = सम्यग्घितं, सम्यग्हितम् । सम्राड् + हरति = सम्राड्ढरति, सम्राडू हरति ।
तद् + हितंतद्धितं, तद्हितम् । ककुभ् + हि = ककुब्भि, ककुन्हि ।
१२० । शश्छोऽटि । (८-४-६३)
झय: परस्य शस्य छो वा अटि परे । यथा- प्राक् + शेते = प्राक्छेते, प्राक् शेते । कश्चित् + शेते = कश्चित् छेते, कश्चिच्छेते, (१०२) कश्चिच्शेते । अप् + शब्दः = अप् छब्दः, अप्शब्दः । द्विट् + शस्त्रं = द्विछस्त्रं, द्विशस्त्रम |
॥ * ॥ छत्वममीति वक्तव्यम् ॥
अटीति न पर्याप्तं, शश्छोऽमीति सूत्रयितव्यम् । यथा- तर् + श्लोकः = तच्छ्लोकः, तच्श्लोकः । | तद् + श्मश्रु = तच्छ्मश्रु, तच्श्मश्रु ।