७४ । मतुवसो रु संबुद्धौ छन्दसि । (८-३-१)
अथ रुणः संनियोगेन (साहचर्येण) विशेषकार्यमुपदिशति ।
७५ । अत्रानुनासिकः पूर्वस्य तु वा । (८-३-२)
तुकारो भिन्नक्रमः अनुनासिकस्तु वा इति । रु नित्यं भवति; अनुनासिकस्तु पूर्वस्य वैकल्पिक इति तुकारो भेदं द्योतयति । रुप्रकरणेऽत्र रुणः पूर्वस्य स्वरस्यविकल्पेनानुनासिकत्वं कार्यमित्यर्थः । अनुनासिको वेत्युक्तम् ;तदभावे किं कर्तव्य-
मित्याह-
७६ । अनुनासिकात् परोऽनुस्वारः । (८-३-४)
अनुनासिकात् इत्यस्य अनुनासिकस्थानिन इत्यर्थः । अनुनासिकस्थानिनः स्वरात् परमनुस्वारासज्जनं कार्यम् । अनुनासिकः पूर्वस्वरस्योक्तः अतो रुणःपूर्वस्य स्वरस्य पश्चादनुनासिकत्वाभावे अनुस्वारो योजनीय इति फलितम् । एवंच रुणि कृते पूर्वस्वरोऽनुनासिकोऽनुस्वारपरो वा कार्यः । द्वित्रा एवान भाषोपयुक्ताविधयः;तत्राप्येक एव सामान्यविधिः ॥
७७ । पुमः खय्यम्परं । (८-३-६)
अम् परो यस्मात् इति बहुव्रीहिः; अम् खय् इत्युभौ प्रत्याहारौ । पदान्ते पुंशब्दस्य रु अन्तादेशः खयि परे; खयश्च अम् परोऽस्ति चेत् । 'समः स् सुटि'(८-३-५) इति पूर्वसूत्रात् (प्रश्लिष्टं) सकारमनुवर्त्य रुणः सकारादेशोऽप्यनेन विधी-यते । रुश्रवणं तु ‘हरिवो मेदिनं त्वा' इत्यादिषु च्छान्दसप्रयोगेष्वेव । अथो-दाहरणम्-- पुम् + कोकिल: = पुर् कोकिलः = पुस्कोकिल: ; (अनुनासिकानुस्वारविकल्पात्) =पुँस्कोकिलः, पुंस्कोकिलः पुम् + खरः = पुँस्खरः, पुंस्वरः । पुम् + पुत्रः = पुँस्पुत्रः, पुंम्पुत्रः । पुम् + फलं=पुँस्फलं, पुंस्फलम् । पुम् + चली = पुँसूचली (= पुँश्चली), पुंसूचली (= पुंश्चली) ।
प्रत्युदाहरणम् – खय् परो न चेत्-पुं + गवः= पुङ्गवः ।
(खयोऽम् न परश्चेत् ) पुं + प्रतिभा=पुंप्रतिभा । संयोगान्तलोपाभावो रुविधानद्वारा विधीयते इति फलति। पुंस् इति सान्तो हि पुंशब्दः । संयोगान्तलोपः २५९ तमसूत्रेण विधीयते ॥