लघुपाणिनीये [तद्धितेष्वण् अचेतनेभ्यो हस्तिधेनुभ्यां च समूहार्थे ठक् । प्रत्ययादिठकार- स्यादेश उक्तः । यथा - - १३८६ । ठस्येकः । (७-३-५०) १३८७ । इसुसुक्तान्तात् कः । (७-३-५१) प्रत्ययादिठकारस्य 'इक' इत्यादेश: । इस्, उस्, उक् (प्रत्या- हारः) त् एतदन्ताभ्यस्तु प्रकृतिभ्यः परस्य 'क' इत्येवादेशः । अनेनात्र ठस्य इकादेशः । कित्त्वादादिवृद्धिः । अपूपानां समूह आपूपिकम् । शकुलिकम् । हविषां समूहो हाविष्कम् ।—इसन्त- त्वात् कादेशः । १३८८ | तदधीते तद्वेद । (४-२-५९) यो निरुक्तमधीते, वेद वा स नैरुक्तः । एवं वैयाकरणः ॥ १३८९ । प्रोक्ताल्लुक् । (४-२-६४) तेन प्रोक्तमित्यर्थे विहितः प्रत्यय उपचारात् प्रोक्तः । प्रोक्तप्रत्य- यान्तादुत्पन्नस्य ‘तदधीते तद्वेद' इति प्रत्ययस्य लुक् । यथा- - पाणिनिना प्रोक्तं पाणिनीयम् । पाणिनीयमधीते वेद वा पाणिनीया ब्राह्मणी । १३९० । जनपदे लुप् । (४-२-८१) जनपदेऽर्थे तस्य निवास इति प्रत्ययस्य लुप् । यथा— पञ्चालानां निवासो जनपदः पञ्चालाः | १३९१ । शेषे । (४-२-९२) अपत्यादिचातुरार्थिकान्ता उक्ताः । तेभ्योऽन्येष्वप्यर्थेषु अण् । वृद्धाच्छः' इत्यादि विशेषविध्यर्थं शेषाधिकारः । यथा - 6 चक्षुषा गृह्यत इति चाक्षुषं रूपम् । दृषदि पिष्टा दार्षदा धानाः । उल्लूखले क्षुण्ण- औलूखलो यावकः । इत्यादि । १३९२ | ग्रामाद्यखनौ । (४-२-९४) ‘तत्र जातः’ इत्यादौ शेषेऽर्थे प्रामशब्दाद्यखचौ स्तः । यथा- ग्रामे जातादिः प्राम्यः, ग्रामीणः ।
पृष्ठम्:Laghu paniniyam vol1.djvu/३९७
दिखावट