१५८ लघुपाणिन ४५८ । णिश्रिद्रुस्रुभ्यः कर्तरि चङ् । (३-१-४८) णिप्रत्ययान्तेभ्यो धातुभ्यः श्रिद्रुस्रुभ्यश्च चङ्; अयं कर्तरिप्रयोग एव, न तु भावकर्मणोरिति विशेषः । अतो भावकर्मणोरौत्सर्गिकः सिच्, तदपवादः क्सश्चैव ।। ४५९ । अस्यतिवक्तिख्यातिभ्योऽङ् | (३-१-५२) एभ्यः कर्तर्यङ् | भावकर्मणोस्तु सिजेव || ४६० । लिपिसिचिद्दृश्च । (३-१-५३) एभ्योऽपि कर्तर्यङ् || ४६१ । पुषादिद्युतालृदितः परस्मैपदेषु । (३-१-५५) पुषादिभ्यः (दिवाद्यन्तर्गणभूतेभ्यः), द्युतादिभ्यः (भूवाद्यन्त- र्गणभूतेभ्य:) लदिङ्ग्यश्च धातुभ्यः परस्मैपदलुङि अङ् स्यात् । 'परस्मै- पदेषु' इत्युक्तेः कर्तर्येवेति स्पष्टम् ।। ४६२ । इरितो वा । (३-१-५७) इरितो धातोः परस्मैपदे लुङचङ् वा ।। - लुङयेवं चत्वारि विकरणानि – सिच, क्सः, चङ्, अङ् चेति । तत्र क्ससिचौ सार्वत्रिकौ; चङडौ कर्तर्येव । लिट आर्धधातु- कत्वान्न तत्र विकरणप्रत्ययः ॥ लकाराणां विकरणव्यवस्थामधो लिखिता पट्टिका दर्शयति- भावकर्मणोः प्रत्ययः । लकारः । कर्तरि प्रत्ययः । सामान्यः शप् अदादौ लुक् जुहोत्यादौ दिवादौ श्यन् खादौ लट ( तिङन्त-प्र० लोट् लिङ् तुदादौ शः रुधादौ श्रम् तनादौ उः क्रयादी ना यक् -
पृष्ठम्:Laghu paniniyam vol1.djvu/१७७
दिखावट