सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम् ]
१३१
परिनिष्ठाकाण्डः

वक्ष्यमाणो मूर्धन्यविधिरपदान्तस्य स्थानिनो भवतीत्यधिक्रियते ।ऋटुरषा मूर्धन्याः; तेषु षकारढकारावेव विधीयेते, यतः सकारधकारा-वेव स्थानिनौ गृहीतौ । सस्य षत्वं, धस्य ढत्वं च विधीयत इति फलि-तम् । तत्रापि ढत्वविधिर्विरल इति प्रकरणस्य ' षत्वप्रकरणम्' इति नाम कृतम् ॥

३७२

साडूपस्य सहधातोः सकारस्य मूर्धन्यः षः स्यात् । यथा- तुराषाट्, तुराषाड्, तुरासाहौ, तुरासाहः; तुरासाहा, तुराषाड्भ्यां... तुराषाट्सु ।पदान्ते ‘हो ढः’ (६३) इति ढत्वे जश्त्वे च सम्भवति; ततस्तत्रै साडूपता षत्वम् .‘वावसाने’ (८-४-५६) (११३) इति चर्त्वस्यासिद्धत्वात् 'तुराषाट्' इत्यत्रापि षत्वम् ।

३७३ । इण्कोः । (८-३-५७)

अधिकारोऽयम् । इण् च, कुश्च इण्कुः इति समाहारद्वन्द्वः । तस्य पञ्चम्यन्तम् ‘इण्कोः' इति । इतोऽनुक्रमिष्यमाणः षत्वविधिः

विशेषवचनाभावे इणकवर्गाभ्यां परस्य सस्य बोध्यः ||

३७४ । नुम्बिसर्जनीयशर्व्यवायेऽपि (८-३-५८)

अयमप्यधिकारः । व्यवायो व्यवधानम्; नुम् इत्यनुस्वारोप- लक्षणम् । सकार इणकुभ्यां साक्षात्परो भवितुमर्हतीति न निर्बन्धः । इण्कवर्गयोः . सस्य च, मध्यपतितैरनुस्खारविसर्गशष सैर्व्यवधानं न गण्यत इत्यर्थः । एवं परिकरबन्धं कृत्वा विधिमारभते-

३७५ । आदेशप्रत्यययोः । (८-३-५९)

इण्कुभ्यां परस्यापदान्तस्य सस्य षः स्यात्, यदि स सकार आदेश: प्रत्ययावयवो वा भवति; नुमविसर्गशर्व्यवायेऽपि चायं स्यात्। यथा- एसः = एषः——‘तदोः सस्सौ...’ (३१५) इत्यादेशः सकार: सुषुवे - धात्वादेः षः सः " "

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१५०&oldid=408491" इत्यस्माद् प्रतिप्राप्तम्