सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol1.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम् ]
११७
परिनिष्ठाकाण्डः ।

पुंसि । अदम् = अमुम् । अदौ अमू । अदान् = अमून् । तृतीयैकवचने अत्वेन अद + आ इति स्थिते ।।

३१९ । नमुने (असिद्धम् ।(८-२-३)

(ने) नाभावे कर्तव्ये मुत्वं नासिद्धम् । मुत्वं निमित्तीकृत्य घिसंज्ञया 'आङो नास्त्रियाम्' इति नाभावो भवति इति यावत् । अमुना इति रूपं सिद्धम् । स्त्रियां तु नाभावविरहात् अदया= अमुया । अदाभ्याम् = अमूभ्याम् । 'नेदमदसोरको:' (२०५) इति निषेधात्' 'अतो भिस ऐस्' न भवति । 'बहुवचने झल्येत्' (२२७) अदेभिः = अमीभिः । स्त्रियाम्, अदाभिः = अमूभिः॥ अदाभ्याम् = अमूभ्याम् । अदेभ्यः = अमीभ्यः । अदस्य अदयोः अमुष्मै । अदस्मात् = अमुष्मात् । अदाभ्याम्= अमूभ्याम् । अदेभ्यः = अमीभ्यः । अमुष्य । अमुयोः । अदेषाम् = अमीषाम् । अदस्मिन् = अमुष्मिन् । स्त्रियाम् । अदाम् = अमूम् । अदाभ्याम् = अमूभ्याम् अदाभ्यः = अमूभ्यः । अदस्याः अमुष्याः । अदाभ्याम् = अमूभ्याम् । अदाभ्यः = अमूभ्यः । अमुष्याः । अमुयोः । अदासाम् अमूषाम् । अदस्याम् = अमुष्याम् । अदेषु अमीषु । अदासु अमूषु । क्लीबे—अदस् = अदः, स्वमोर्लुप्तत्वात् न किञ्चित् कार्यम् अदे अमू। अदानि अमूनि । अदे = अमू (द्विवचनत्वादीत्वं न ) । अदाः = अमूः । स्त्रियाम् । अदस्यै अमुष्यै । अदस्याः अदयोः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१३६&oldid=407848" इत्यस्माद् प्रतिप्राप्तम्