२४१ । औत् । (७-३-११८)
इदुद्भ्यां परस्य डेरौकारादेशः स्यात् | यथा— सखि – मुख्यौ । पति – पत्यौ । पूर्वसूत्रेण नद्या आम् विहितः ; उत्तरसूत्रेण घेश्च विशेषो विधीयते । अतः घिनदीसंज्ञारहितौ सखिपतिशब्दावेवास्य सूत्रस्य विषयौ ||
२४२
घे: परस्य डेरपि औकारादेशः । किंतु तदा प्रकृतेर्घेरकारोऽन्ता- देशश्च । यथा— हार + इ = हर + औ = हरौ । गुरु + इ = गुर + औ = गुरौ ।
२४३ । आङो नास्त्रियाम् । (७-३-१२०)
घे: परस्य टा इति तृतीयैकवचनस्य ना इत्यादेश: स्यात् (अस्त्रियां) पुन्नपुंसकयोः । यथा- कविना, गुरुणा, अमुना (कुलेन) । स्त्रियां तु—मत्या, तन्वा।
॥अथ प्रकरणान्तरविहिनानि कार्याणि॥
२४४ । आमि सर्वनाम्नः सुद् । (७-१-५२)
‘आत्' इत्यनुवर्तते । अवर्णान्तात् (न तु अदन्तात्) सर्वनाम्नः परस्य आमः सुडागम: स्यात् ॥ सर्व + आम् – सर्व + साम्– 'बहुवचने झल्येत्' (२२७) सर्वेसां – षत्वं, सर्वेषाम् । स्त्रियां तु अदन्तत्वाभावात् न एत्वम्, इणभावान्न षत्वम्, सर्वासाम् । एवम् अन्येषाम्, अन्यासाम् इत्यादि । प्रत्यु० – ('आत्' किम् ? ) भवताम् ।
१. ‘आमि’ इति सप्तमीनिर्देश उत्तरसूत्रेऽनुवृत्त्यर्थः । अत्र तु 'आत्' इत्यनुवृत्तेः ‘सर्वनाम्न' इत्यपि पञ्चमीति स्पष्टम् । तस्मात् 'तस्मादित्युत्तरस्य' इति परिभाषया आम एव सुट् सिध्यति । टित्त्वादाद्यागमश्च।