पृष्ठम्:Kalidasa's Śakuntala.djvu/११५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


95] सप्तमो ऽङ्कः मनुष्यलोकः । तथा हेि शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी भ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः । संधानं तनुभागनष्टसलिलव्यक्तया व्रजन्त्यापगाः केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्धमानीयते ॥ ८ ॥ मातलिः । । सबहुमानमवलोक्य ॥ आयुष्मन् । साधु दृष्टम् । अहो । उदग्ररमणीया पृथ्वी । 3राजा । मातले । कतमो ऽयं पूर्वापरसमुद्रावगाढः कनकरसनिष्यन्दी सांध्य इव मेघः सानुमानवलोक्यते । मातलिः । आयुष्मन् । एष खलु हेमकूटो नाम किंपुरुषपर्वतः परं 6तपखिनां सिद्धिक्षेत्रम् । पश्य । खायंभुवान्मरीचेर्यः प्रबभूव मजापतिः । सुरासुरगुरुः सो ऽस्मिन्सपत्रीकस्तपस्यति ॥ ९ ॥ राजा । । सादरम् ॥ तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि । 3मातलिः । आयुष्मन् । प्रथमः कल्पः । । रथावतरणं नाटयित्वा ॥ एतावव तीर्णे खः । राजा । । सविस्मयम् ॥ मातले । उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः । अभूतलस्पर्शतया निरुद्धति स्तवावतीर्णो ऽपि न लक्ष्यते रथः ॥ १० ॥ मातलिः । एतावानेवायुष्मतः शतक्रतोश्च रथस्य विशेषः । राजा । कतमस्मिन्मदेशे मारीचाश्रमः ।