पृष्ठम्:Kalidasa's Śakuntala.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi.4. 1 –] मातलिः । सदृशं तवैतत् । ॥ स्तोकमन्तरं गत्वा ॥ आयुष्मन् । इतः पश्य नाकपृष्ठप्रस्थितस्य सौभाग्यमात्मयशसः । विच्छित्तिशेषैः सुरसुन्दरीणां वणैरमी कल्पलतान्तरेषु । संचिन्त्य गीतिक्षममर्थतत्त्वं दिवौकसस्त्वरितं लिखन्ति ॥ ५ ॥ राजा । मातले । असुरसंप्रहारोत्सुकेन पूर्वेद्युरधिरोहता न लक्षितो ऽयं प्रदेशो मया । तत्कतमस्मिन्पथि वर्तामहे मरुताम् । 3मातलिः । त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतींषि वर्तयति चक्रविभक्तरश्मिः । तस्य व्यपेतरजसः प्रवहस्य वायो र्मार्गे द्वितीयहरिविक्रमपूत एषः ॥ ६ ॥ राजा । अतः खलु मे सवाह्मकरणो ऽन्तरात्मा प्रसीदति । । रथाङ्गमव लोक्य ॥ शङ्गे मेघपदवीमवतीर्णः स्मः । 3मातलिः । आयुष्मन्। कथमवगम्यते । राजा । [94 अयमगविवरेभ्यश्चातकैर्निष्पतद्रि हैरिभिरचिरभासां तेजसा चानुलिसैः । गतमुपरि घनानां वारिगभदराणां पिशुनयति रथस्ते शीकरविन्ननेमिः ॥ ७ ॥ मातलिः । अथ किम् । अन्यश्च । क्षणादूर्धमायुष्मानात्माधिकारभूमौ वर्तिष्यते । 3राजा । । अधो ऽवलोक्य ॥ मातले। वेगावतरणादाश्चर्यदर्शनः संपद्यते [Digitized by (Google