पृष्ठम्:Kalidasa's Śakuntala.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

93] । ततः प्रविशत्याकाशवत्र्मना रथारूढो राजा मातलिश्च ॥ राजा । मातले । अनुष्ठितनिदेशो ऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तः 3मिवात्मानं समर्थये । मातलिः । आयुष्मन् । उभयत्राप्यसंतोषमवगच्छ । कुतः । उपकृत्य हरेस्तथा भवाउँघु सत्कारमवेक्ष्य मन्यते । गणयत्यवदानसंमितां भवतः सो ऽपि न सत्क्रियामिमाम् ॥ १ ॥ राजा । मा मैवम् । स खलु मनोरथानामप्यतिदूरवर्ती विसर्जनावसरे सत्कारः । मम हि दिवौकसां समक्षमर्धासनोपविष्टस्य जयन्तमुद्वीक्ष्य कृतमितेन । प्रसृज्य वक्षो हरिचन्दनाङ्क मन्दारमाला हरिणा पिनद्धा ॥ २ ॥ मातलिः । किमिव सुरेशादायुष्मान्नार्हति । पश्य । सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुदृतदानवकण्टकम् । तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥ ३ ॥ राजा । अत्र खलु शतक्रतोरेव महिमा । पश्य । सिध्यन्ति कर्मसु महत्खपि यभियोज्याः संभावनागुणमवेहि तमीश्धराणाम् । किं माभविष्यदरुणस्तमसां वधाय तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥ ४ ॥ wi.4. d